18.9 C
Gujarat
मंगलवार, दिसम्बर 16, 2025

विघ्नविनाशक स्तोत्रम्

Post Date:

विघ्नविनाशक स्तोत्रम् Vighna Vinashaka Stotram

 

ईशानो ढुण्ढिराजो गणपतिरखिलाघौघनाश वरेण्यो देवानामग्रगण्य: सकलगुणनिधिर्योऽग्र- पूजाधिकारी ।
विद्याधीशो वलिष्ठ: षडरिविदलन: सिद्धिबुद्धिप्रदाता जीवानां मुक्तिहेतुर्जयति भवंहर: श्रीगुरु: सौख्यसिन्धु: ॥१॥

विघ्नान्हन्तीति योऽसौ श्रुतिषु निगदितो विघ्नहेतिप्रसिद्धो व्यक्तेवाऽव्यक्तरूपे प्रणवपुरयं ब्रह्मरूप: स्वमात्र: ।
यो व्यक्तो भक्तहेतुर्निरवधिरमलो निर्गुणो निष्कियोपि भक्तानां मुक्तिहेतौ विदलयति कृतं मायिकस्याद्बय: स: ॥२॥

सर्पोरज्जुर्हि यद्बन्न भुजग इति सा कथ्यते रज्जुसर्पे विश्वं ब्रह्मैव तद्वन्न च जगदिति तत्खल्विदं ब्रह्मवाक्ये ।
सत्ता सामान्यरूपात्कथितमपि च यो दृश्यरूपो न तादृक्‍ दृश्यं यद्बिघ्रकृत्स्यात्तदपनयति यो बोधतो विघ्रहाऽयम् ॥३॥

सर्वं ब्रह्मस्वरूपं परमपरयुतं विश्वमाभाति यच्च चैतन्यस्याद्‍द्वयत्वाद्‍ गदित इति च यो दृश्यरूपो‍ऽप्यरूप: ।
माया तत्सर्वकार्यं जडमिति कथितं यं विनाभावमेति सर्वत्रावस्थितत्वात्तदनुभव इति स्वादनाद्योऽद्बद: स: ॥४॥

भात्यस्त्यानन्दरूपोऽसदसुखजडतारूपदृश्येऽस्ति यो वै नित्यो नित्यादिकानां भावति किल तथा चेतन- श्चेतनानाम् ।
सर्वस्थैतस्य मायाकृतसुखमिह यत् प्रार्थ्यते तद्‍गणेशो यस्तं सर्वादिभूतं भजत जगति भो: सारभूतं वरेण्यम् ॥५॥

नित्यं यन्निर्विकारं निरतिशयसुखं ब्रह्मतन्मत्स्वरूपं ज्ञात्वा विश्वातिभूत: सकलविदलयन् स्वार्चिषा स्वस्थ आसे ।
माया तत्कार्यमेतत्स्पृशति न मयि वा दृश्यते नाऽविरासीन् मायाया: सर्वशक्ते: पर इति सततं य: स एवाद्वयोऽहम् ॥६॥

ब्रह्मा नन्दकरोऽयमात्ममतिद: श्रीढुण्ढिराजस्तवो विघ्राघौघघनप्रचण्डपवन: कामेभपञ्चानन: ।
मायाव्यालकुलप्रमत्तगरुडो मोहातवीहव्यवाड्‍ अज्ञानान्धनिवार णैकतरणिर्भेदाब्धिकुम्मोद्भव: ॥७॥

इति श्रीभगवता श्रीधरस्वामिना विरचिंत बिघ्रविनाशकस्तोत्रं सम्पूर्णम् ॥

Share post:

Subscribe

Popular

More like this
Related

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...

विष्णु पादादि केशांत वर्णन स्तोत्रं

विष्णु पादादि केशांत वर्णन स्तोत्रंलक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं...
error: Content is protected !!