Narayan Kavach
नारायण कवचम्(Narayan Kavach) एक अत्यंत शक्तिशाली वैदिक स्तोत्र है, जो विष्णु पुराण तथा श्रीमद्भागवत महापुराण में वर्णित है। यह स्तोत्र भगवान श्रीहरि नारायण की कृपा प्राप्त करने के लिए गाया जाता है और साधकों को अदृश्य सुरक्षा कवच प्रदान करता है। यह विशेष रूप से विष्णु भक्तों द्वारा संकलित किया गया है और किसी भी प्रकार के भय, संकट, रोग, शत्रु और नकारात्मक ऊर्जा से रक्षा करता है।
नारायण कवचम् का उल्लेख श्रीमद्भागवत महापुराण के छठे स्कंध के अष्टम अध्याय में किया गया है। इसमें देवर्षि नारद द्वारा इंद्रदेव को इस कवच की महिमा बताई गई है। यह कवच स्वयं भगवान नारायण के विभिन्न रूपों को स्मरण करते हुए रचा गया है।
नारायण कवचम् का महत्व
- रक्षा प्रदान करता है – इसे धारण करने वाला व्यक्ति सभी प्रकार के संकटों से बचा रहता है।
- नकारात्मक ऊर्जा से बचाव – यह मंत्र शरीर, मन और आत्मा को नकारात्मक शक्तियों से सुरक्षित रखता है।
- आध्यात्मिक उन्नति – इस कवच का नियमित जाप करने से साधक की आध्यात्मिक शक्ति बढ़ती है।
- शत्रुओं से मुक्ति – जो व्यक्ति अपने जीवन में शत्रुओं से परेशान रहता है, उसे यह कवच नित्य पढ़ना चाहिए।
- स्वास्थ्य एवं दीर्घायु – यह शरीर को निरोगी बनाए रखता है और दीर्घायु प्रदान करता है।
कैसे करें नारायण कवचम् का पाठ?
- प्रातःकाल स्नान करके शुद्ध होकर इस कवच का पाठ करें।
- भगवान विष्णु की मूर्ति या चित्र के समक्ष बैठकर श्रद्धापूर्वक उच्चारण करें।
- पीला वस्त्र धारण करें, क्योंकि यह विष्णु का प्रिय रंग है।
- शंख और तुलसी पत्र से भगवान को अर्पण करें।
- इस कवच का पाठ कम से कम 11 बार करें, विशेष रूप से संकट के समय।
नारायण कवचम् – Narayan Kavach Sanskrit
न्यासः
अंगन्यासः
ॐ ॐ पादयोः नमः ।
ॐ नं जानुनोः नमः ।
ॐ मों ऊर्वोः नमः ।
ॐ नां उदरे नमः ।
ॐ रां हृदि नमः ।
ॐ यं उरसि नमः ।
ॐ णां मुखे नमः ।
ॐ यं शिरसि नमः ।
करन्यासः
ॐ ॐ दक्षिणतर्जन्यां नमः ।
ॐ नं दक्षिणमध्यमायां नमः ।
ॐ मों दक्षिणानामिकायां नमः ।
ॐ भं दक्षिणकनिष्ठिकायां नमः ।
ॐ गं वामकनिष्ठिकायां नमः ।
ॐ वं वामानिकायां नमः ।
ॐ तें वाममध्यमायां नमः ।
ॐ वां वामतर्जन्यां नमः ।
ॐ सुं दक्षिणांगुष्ठोर्ध्वपर्वणि नमः ।
ॐ दें दक्षिणांगुष्ठाधः पर्वणि नमः ।
ॐ वां वामांगुष्ठोर्ध्वपर्वणि नमः ।
ॐ यं वामांगुष्ठाधः पर्वणि नमः ।
विष्णुषडक्षरन्यासः
ॐ ॐ हृदये नमः ।
ॐ विं मूर्ध्नै नमः ।
ॐ षं भ्रुर्वोर्मध्ये नमः ।
ॐ णं शिखायां नमः ।
ॐ वें नेत्रयोः नमः ।
ॐ नं सर्वसंधिषु नमः ।
ॐ मः प्राच्यां अस्त्राय फट् ।
ॐ मः आग्नेय्यां अस्त्राय फट् ।
ॐ मः दक्षिणस्यां अस्त्राय फट् ।
ॐ मः नैऋत्ये अस्त्राय फट् ।
ॐ मः प्रतीच्यां अस्त्राय फट् ।
ॐ मः वायव्ये अस्त्राय फट् ।
ॐ मः उदीच्यां अस्त्राय फट् ।
ॐ मः ऐशान्यां अस्त्राय फट् ।
ॐ मः ऊर्ध्वायां अस्त्राय फट् ।
ॐ मः अधरायां अस्त्राय फट् ।
श्री हरिः
अथ श्रीनारायणकवच
राजोवाच
यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ 1 ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ 2 ॥
श्री शुक उवाच
वृतः पुरोहितस्त्वाष्ट्रो महेंद्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ 3 ॥
श्रीविश्वरूप उवाच
धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः ॥ 4 ॥
नारायणमयं वर्म सन्नह्येद्भय आगते ।
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥ 5 ॥
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ॥ 6 ॥
ॐ नमो नारायणायेति विपर्ययमथापि वा ।
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ॥ 7 ॥
प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु ।
न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि ॥ 8 ॥
षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ।
वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु ॥ 9 ॥
मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद्बुधः ।
सविसर्गं फडंतं तत्सर्वदिक्षु विनिर्दिशेत् ॥ 10 ॥
ॐ विष्णवे नमः ॥
इत्यात्मानं परं ध्यायेद्ध्येयं षट्छक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मंत्रमुदाहरेत् ॥ 11 ॥
ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्तांघ्रिपद्मः पतगेंद्र पृष्ठे ।
दरारिचर्मासिगदेषुचाप-
-पाशांदधानोऽष्टगुणोऽष्टबाहुः ॥ 12 ॥
जलेषु मां रक्षतु मत्स्यमूर्ति-
-र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्या-
-त्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ 13 ॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः ।
विमुंचतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ 14 ॥
रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ 15 ॥
मामुग्रधर्मादखिलात्प्रमादा-
-न्नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबंधात् ॥ 16 ॥
सनत्कुमारोऽवतु कामदेवा-
-द्धयाननो मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनांतरा-
-त्कूर्मो हरिर्मां निरयादशेषात् ॥ 17 ॥
धन्वंतरिर्भगवान्पात्वपथ्या-
-द्द्वंद्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्जनांता-
-द्बलो गणात्क्रोधवशादहींद्रः ॥ 18 ॥
द्वैपायनो भगवानप्रबोधा-
-द्बुद्धस्तु पाषंडगणात्प्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः ॥ 19 ॥
मां केशवो गदया प्रातरव्या-
-द्गोविंद आसंगवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति-
-र्मध्यंदिने विष्णुररींद्रपाणिः ॥ 20 ॥
देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥ 21 ॥
श्रीवत्सधामाऽपररात्र ईशः
प्रत्युष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसंध्यं प्रभाते
विश्वेश्वरो भगवान्कालमूर्तिः ॥ 22 ॥
चक्रं युगांतानलतिग्मनेमि
भ्रमत्समंताद्भगवत्प्रयुक्तम् ।
दंदग्धि दंदग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥ 23 ॥
गदेऽशनिस्पर्शनविस्फुलिंगे
निष्पिंढि निष्पिंढ्यजितप्रियासि ।
कूष्मांडवैनायकयक्षरक्षो
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ 24 ॥
त्वं यातुधानप्रमथप्रेतमातृ-
-पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेंद्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कंपयन् ॥ 25 ॥
त्वं तिग्मधारासिवरारिसैन्य-
-मीशप्रयुक्तो मम छिंधि छिंधि ।
चक्षूंषि चर्मन् शतचंद्र छादय
द्विषामघोनां हर पापचक्षुषाम् ॥ 26 ॥
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥ 27 ॥
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयांतु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ 28 ॥
गरुडो भगवान् स्तोत्रस्तोमश्छंदोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ 29 ॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धींद्रियमनःप्राणान्पांतु पार्षदभूषणाः ॥ 30 ॥
यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यांतु नाशमुपद्रवाः ॥ 31 ॥
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिंगाख्या धत्ते शक्तीः स्वमायया ॥ 32 ॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ 33 ॥
विदिक्षु दिक्षूर्ध्वमधः समंता-
-दंतर्बहिर्भगवान्नारसिंहः ।
प्रहापयँल्लोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः ॥ 34 ॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ॥ 35 ॥
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ 36 ॥
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ 37 ॥
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
योगधारणया स्वांगं जहौ स मरुधन्वनि ॥ 38 ॥
तस्योपरि विमानेन गंधर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ 39 ॥
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्छिराः ।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्राप्य प्राच्यां सरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ 40 ॥
श्री शुक उवाच
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥ 41 ॥
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ 42 ॥
इति श्रीमद्भागवते महापुराणे षष्ठस्कंधे नारायणवर्मोपदेशो नामाष्टमोऽध्यायः ।
नारायण कवचम् एक दिव्य कवच है जो भक्तों को भय, रोग, शत्रु और आध्यात्मिक अवरोधों से मुक्ति दिलाता है। यदि इसे श्रद्धा और विश्वास के साथ पढ़ा जाए, तो यह जीवन में सकारात्मकता और सुरक्षा का भाव उत्पन्न करता है। भगवान विष्णु की कृपा से साधक को सभी प्रकार के संकटों से मुक्ति मिलती है और उसे दिव्य आशीर्वाद प्राप्त होता है।