रवि अष्टकम् उदयाद्रिमस्तकमहामणिं लसत्-कमलाकरैकसुहृदं महौजसम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।तिमिरापहारनिरतं निरामयंनिजरागरञ्जितजगत्त्रयं विभुम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।दिनरात्रिभेदकरमद्भुतं परंसुरवृन्दसंस्तुतचरित्रमव्ययम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।श्रुतिसारपारमजरामयं परंरमणीयविग्रहमुदग्ररोचिषम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।शुकपक्षतुण्डसदृशाश्वमण्डलम्अचलावरोहपरिगीतसाहसम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम्।श्रुतितत्त्वगम्यमखिलाक्षिगोचरंजगदेकदीपमुदयास्तरागिणम्।गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि…