By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
SanatanWeb.comSanatanWeb.comSanatanWeb.com
Notification Show More
Font ResizerAa
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
      • धर्मशास्त्र
      • कामशास्त्र
      • रसायनशास्त्र
      • संगीतशास्त्र
      • ज्योतिषशास्त्र
      • अर्थशास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Reading: दत्तात्रेय वज्र कवचम्
Share
Font ResizerAa
SanatanWeb.comSanatanWeb.com
  • सनातनज्ञान
  • गीतकाव्य
  • आरोग्य
  • ज्योतिष
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
Search
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Follow US
SanatanWeb.com > Blog > गीतकाव्य > कवचम् > दत्तात्रेय वज्र कवचम्
कवचम्

दत्तात्रेय वज्र कवचम्

Sanatani
Last updated: जनवरी 22, 2026 6:28 अपराह्न
Sanatani
Published: जनवरी 22, 2026
Share
SHARE

दत्तात्रेय वज्र कवचम्

दत्तात्रेय वज्र कवचम् एक अत्यंत शक्तिशाली स्तोत्र है, जो भगवान दत्तात्रेय की कृपा प्राप्त करने और हर प्रकार की नकारात्मक शक्तियों से रक्षा हेतु किया जाता है। यह कवच साधकों के लिए एक अद्भुत सुरक्षा कवच के रूप में कार्य करता है। यह विशेष रूप से उन लोगों के लिए लाभकारी होता है जो आध्यात्मिक साधना में लीन होते हैं और सिद्धि प्राप्त करना चाहते हैं।

Contents
  • दत्तात्रेय वज्र कवचम्
  • दत्तात्रेय वज्र कवचम् का महत्त्व
  • दत्तात्रेय वज्र कवचम् का पाठ विधि
  • Dattatreya Vajra Kavacham
  • दत्तात्रेय वज्र कवचम् के लाभ

दत्तात्रेय वज्र कवचम् का महत्त्व

1. सुरक्षा कवच:
इस स्तोत्र का नियमित पाठ साधक को दैहिक, दैविक और भौतिक कष्टों से मुक्ति दिलाता है। इसे ‘वज्र कवच’ इसलिए कहा जाता है क्योंकि यह साधक की रक्षा वज्र (अटूट कवच) के समान करता है।

2. आध्यात्मिक उन्नति:
जो साधक अपनी आध्यात्मिक साधना को आगे बढ़ाना चाहते हैं, उनके लिए यह कवच अत्यंत महत्वपूर्ण है। इसके प्रभाव से साधक का मन शांत रहता है, ध्यान में एकाग्रता बढ़ती है और गुरु कृपा प्राप्त होती है।

3. नकारात्मक शक्तियों से रक्षा:
यह कवच तंत्र-मंत्र, बुरी दृष्टि, नकारात्मक ऊर्जा और किसी भी प्रकार के अदृश्य बाधाओं से रक्षा करता है। इसे करने से व्यक्ति को मानसिक शांति मिलती है और उसके जीवन में सकारात्मकता बनी रहती है।

4. समृद्धि और सफलता:
जो भी व्यक्ति इस कवच का नियमित रूप से पाठ करता है, उसे जीवन में सफलता और समृद्धि की प्राप्ति होती है। व्यापार, नौकरी या किसी भी क्षेत्र में आने वाली बाधाएँ दूर होती हैं।

दत्तात्रेय वज्र कवचम् का पाठ विधि

इस स्तोत्र का पाठ करते समय निम्नलिखित बातों का ध्यान रखना आवश्यक होता है—

  1. स्नान और स्वच्छ वस्त्र धारण करें ताकि शरीर व मन शुद्ध रहें।
  2. पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
  3. भगवान दत्तात्रेय का ध्यान करते हुए “ॐ द्रां दत्तात्रेयाय नमः” मंत्र का जाप करें।
  4. इसके बाद पूरी श्रद्धा और विश्वास के साथ दत्तात्रेय वज्र कवचम् का पाठ करें।
  5. पाठ के उपरांत भगवान दत्तात्रेय को पीले फूल, धूप और नैवेद्य अर्पित करें।
  6. यदि कोई विशेष मनोकामना हो, तो भगवान से प्रार्थना करें और 40 या 108 दिनों तक नियमित रूप से पाठ करें।

Dattatreya Vajra Kavacham

ऋषय ऊचुः ।
कथं संकल्पसिद्धिः स्याद्वेदव्यास कलौयुगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ 1 ॥

व्यास उवाच ।
शृण्वंतु ऋषयस्सर्वे शीघ्रं संकल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ 2 ॥

गौरीशृंगे हिमवतः कल्पवृक्षोपशोभितम् ।
दीप्ते दिव्यमहारत्न हेममंडपमध्यगम् ॥ 3 ॥

रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम् ।
मंदस्मितमुखांभोजं शंकरं प्राह पार्वती ॥ 4 ॥

श्रीदेवी उवाच ।
देवदेव महादेव लोकशंकर शंकर ।
मंत्रजालानि सर्वाणि यंत्रजालानि कृत्स्नशः ॥ 5 ॥

तंत्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।
इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ 6 ॥

इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।
करेणामृज्य संतोषात् पार्वतीं प्रत्यभाषत ॥ 7 ॥

मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शंकरः ॥ 8 ॥

ययौ भूमंडलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।
क्वचित् विंध्याचलप्रांते महारण्ये सुदुर्गमे ॥ 9 ॥

तत्र व्याहर्तुमायांतं भिल्लं परशुधारिणम् ।
वध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम् ॥ 10 ॥

अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।
अप्रयत्नमनायासमखिन्नं सुखमास्थितम् ॥ 11 ॥

पलायंतं मृगं पश्चाद्व्याघ्रो भीत्या पलायतः ।
एतदाश्चर्यमालोक्य पार्वती प्राह शंकरम् ॥ 12 ॥

श्री पार्वत्युवाच ।
किमाश्चर्यं किमाश्चर्यमग्रे शंभो निरीक्ष्यताम् ।
इत्युक्तः स ततः शंभुर्दृष्ट्वा प्राह पुराणवित् ॥ 13 ॥

श्री शंकर उवाच ।
गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् ।
अदृष्टपूर्वमस्माभिर्नास्ति किंचिन्न कुत्रचित् ॥ 14 ॥

मया सम्यक् समासेन वक्ष्यते शृणु पार्वति ।
अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ 15 ॥

समित्कुशप्रसूनानि कंदमूलफलादिकम् ।
प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ 16 ॥

प्रिये पूर्वं मुनींद्रेभ्यः प्रयच्छति न वांछति ।
तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ 17 ॥

दलादनो महायोगी वसन्नेव निजाश्रमे ।
कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगंबरम् ॥ 18 ॥

दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् ।
तत्‍क्षणात् सोऽपि योगींद्रो दत्तात्रेयः समुत्थितः ॥ 19 ॥

तं दृष्ट्वाश्चर्यतोषाभ्यां दलादनमहामुनिः ।
संपूज्याग्रे विषीदंतं दत्तात्रेयमुवाच तम् ॥ 20 ॥

मयोपहूतः संप्राप्तो दत्तात्रेय महामुने ।
स्मर्तृगामी त्वमित्येतत् किं वदंती परीक्षितुम् ॥ 21 ॥

मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ 22 ॥

अभक्त्या वा सुभक्त्या वा यः स्मरेन्नामनन्यधीः ।
तदानीं तमुपागम्य ददामि तदभीप्सितम् ॥ 23 ॥

दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।
यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ 24 ॥

दत्तात्रेयं मुनिं प्राह मया किमपि नोच्यते ।
त्वच्चित्ते यत् स्थितं तन्मे प्रयच्छ मुनिपुंगव ॥ 25 ॥

श्री दत्तात्रेय उवाच ।
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।
तथेत्यंगीकृतवते दलादमुनये मुनिः ॥ 26 ॥

स्ववज्रकवचं प्राह ऋषिच्छंदः पुरस्सरम् ।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ 27 ॥

अस्य श्रीदत्तात्रेय वज्रकवच स्तोत्रमंत्रस्य, किरातरूपी महारुद्रृषिः, अनुष्टुप् छंदः, श्रीदत्तात्रेयो देवता, द्रां बीजम्, आं शक्तिः, क्रौं कीलकम्.
ॐ आत्मने नमः
ॐ द्रीं मनसे नमः
ॐ आं द्रीं श्रीं सौः
ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः
श्री दत्तात्रेय प्रसाद सिद्ध्यर्थे जपे विनियोगः

करन्यासः ।
ॐ द्रां अंगुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः ।
ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुम् ।
ॐ द्रौं नेत्रत्रयाय वौषट् ।
ॐ द्रः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्बंधः ।

ध्यानम् ।
जगदंकुरकंदाय सच्चिदानंदमूर्तये ।
दत्तात्रेयाय योगींद्रचंद्राय परमात्मने ॥ 1 ॥

कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।
दत्तात्रेयो हरिः साक्षात् भुक्तिमुक्तिप्रदायकः ॥ 2 ॥

वाराणसीपुरस्नायी कॊल्हापुरजपादरः ।
माहुरीपुरभीक्षाशी सह्यशायी दिगंबरः ॥ 3 ॥

इंद्रनील समाकारः चंद्रकांतिसमद्युतिः ।
वैढूर्य सदृशस्फूर्तिः चलत्किंचिज्जटाधरः ॥ 4 ॥

स्निग्धधावल्य युक्ताक्षोऽत्यंतनील कनीनिकः ।
भ्रूवक्षःश्मश्रुनीलांकः शशांकसदृशाननः ॥ 5 ॥

हासनिर्जित निहारः कंठनिर्जित कंबुकः ।
मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥ 6 ॥

विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः ।
पृथुलश्रोणिललितो विशालजघनस्थलः ॥ 7 ॥

रंभास्तंभोपमानोरुः जानुपूर्वैकजंघकः ।
गूढगुल्फः कूर्मपृष्ठो लसत्वादोपरिस्थलः ॥ 8 ॥

रक्तारविंदसदृश रमणीय पदाधरः ।
चर्मांबरधरो योगी स्मर्तृगामी क्षणेक्षणे ॥ 9 ॥

ज्ञानोपदेशनिरतो विपद्धरणदीक्षितः ।
सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥ 10 ॥

वामहस्तेन वरदो दक्षिणेनाभयंकरः ।
बालोन्मत्त पिशाचीभिः क्वचिद् युक्तः परीक्षितः ॥ 11 ॥

त्यागी भोगी महायोगी नित्यानंदो निरंजनः ।
सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥ 12 ॥

भस्मोद्धूलित सर्वांगो महापातकनाशनः ।
भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥ 13 ॥

एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ।
मामेव पश्यन्सर्वत्र स मया सह संचरेत् ॥ 14 ॥

दिगंबरं भस्मसुगंध लेपनं
चक्रं त्रिशूलं ढमरुं गदायुधम् ।
पद्मासनं योगिमुनींद्रवंदितं
दत्तेतिनामस्मरणेन नित्यम् ॥ 15 ॥

पंचोपचारपूजा ।

ॐ लं पृथिवीतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
गंधं परिकल्पयामि।

ॐ हं आकाशतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
पुष्पं परिकल्पयामि ।

ॐ यं वायुतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
धूपं परिकल्पयामि ।

ॐ रं वह्नितत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
दीपं परिकल्पयामि ।

ॐ वं अमृत तत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
अमृतनैवेद्यं परिकल्पयामि ।

ॐ सं सर्वतत्त्वात्मने श्रीदत्तात्रेयाय नमः ।
तांबूलादिसर्वोपचारान् परिकल्पयामि ।

(अनंतरं ‘ॐ द्रां…’ इति मूलमंत्रं अष्टोत्तरशतवारं (108) जपेत्)

अथ वज्रकवचम् ।

ॐ दत्तात्रेयाय शिरःपातु सहस्राब्जेषु संस्थितः ।
फालं पात्वानसूयेयः चंद्रमंडलमध्यगः ॥ 1 ॥

कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।
ज्योतिरूपोऽक्षिणीपातु पातु शब्दात्मकः श्रुती ॥ 2 ॥

नासिकां पातु गंधात्मा मुखं पातु रसात्मकः ।
जिह्वां वेदात्मकः पातु दंतोष्ठौ पातु धार्मिकः ॥ 3 ॥

कपोलावत्रिभूः पातु पात्वशेषं ममात्मवित् ।
सर्वात्मा षोडशाराब्जस्थितः स्वात्माऽवताद् गलम् ॥ 4 ॥

स्कंधौ चंद्रानुजः पातु भुजौ पातु कृतादिभूः ।
जत्रुणी शत्रुजित् पातु पातु वक्षस्थलं हरिः ॥ 5 ॥

कादिठांतद्वादशारपद्मगो मरुदात्मकः ।
योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ 6 ॥

पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।
हठयोगादियोगज्ञः कुक्षिं पातु कृपानिधिः ॥ 7 ॥

डकारादि फकारांत दशारसरसीरुहे ।
नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ 8 ॥

वह्नितत्त्वमयो योगी रक्षतान्मणिपूरकम् ।
कटिं कटिस्थब्रह्मांडवासुदेवात्मकोऽवतु ॥ 9 ॥

वकारादि लकारांत षट्पत्रांबुजबोधकः ।
जलतत्त्वमयो योगी स्वाधिष्ठानं ममावतु ॥ 10 ॥

सिद्धासन समासीन ऊरू सिद्धेश्वरोऽवतु ।
वादिसांत चतुष्पत्रसरोरुह निबोधकः ॥ 11 ॥

मूलाधारं महीरूपो रक्षताद् वीर्यनिग्रही ।
पृष्ठं च सर्वतः पातु जानुन्यस्तकरांबुजः ॥ 12 ॥

जंघे पात्ववधूतेंद्रः पात्वंघ्री तीर्थपावनः ।
सर्वांगं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ 13 ॥

चर्म चर्मांबरः पातु रक्तं भक्तिप्रियोऽवतु ।
मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ 14 ॥

अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् ।
शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ 15 ॥

मनोबुद्धिमहंकारं हृषीकेशात्मकोऽवतु ।
कर्मेंद्रियाणि पात्वीशः पातु ज्ञानेंद्रियाण्यजः ॥ 16 ॥

बंधून् बंधूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् ।
गृहारामधनक्षेत्रपुत्रादीन् शंकरोऽवतु ॥ 17 ॥

भार्यां प्रकृतिवित् पातु पश्वादीन् पातु शार्‍ंगभृत् ।
प्राणान् पातु प्रधानज्ञो भक्ष्यादीन् पातु भास्करः ॥ 18 ॥

सुखं चंद्रात्मकः पातु दुःखात् पातु पुरांतकः ।
पशून् पशुपतिः पातु भूतिं भूतेश्वरो मम ॥ 19 ॥

प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।
याम्यां धर्मात्मकः पातु नैरृत्यां सर्ववैरिहृत् ॥ 20 ॥

वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ।
कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ 21 ॥

ऊर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः ।
रक्षाहीनं तु यत् स्थानं रक्षत्वादिमुनीश्वरः ॥ 22 ॥

करन्यासः ।
ॐ द्रां अंगुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः ।
ॐ द्रां हृदयाय नमः ।
ॐ द्रीं शिरसे स्वाहा ।
ॐ द्रूं शिखायै वषट् ।
ॐ द्रैं कवचाय हुम् ।
ॐ द्रौं नेत्रत्रयाय वौषट् ।
ॐ द्रः अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोमिति दिग्विमोकः ।

फलशृति ॥

एतन्मे वज्रकवचं यः पठेत् शृणुयादपि ।
वज्रकायश्चिरंजीवी दत्तात्रेयोऽहमब्रुवम् ॥ 23 ॥

त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।
सर्वत्र सिद्धसंकल्पो जीवन्मुक्तोऽद्यवर्तते ॥ 24 ॥

इत्युक्त्वांतर्दधे योगी दत्तात्रेयो दिगंबरः ।
दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ 25 ॥

भिल्लो दूरश्रवा नाम तदानीं श्रुतवानिदम् ।
सकृच्छ्रवणमात्रेण वज्रांगोऽभवदप्यसौ ॥ 26 ॥

इत्येतद् वज्रकवचं दत्तात्रेयस्य योगिनः ।
श्रुत्वा शेषं शंभुमुखात् पुनरप्याह पार्वती ॥ 27 ॥

श्री पार्वत्युवाच ।

एतत् कवच माहात्म्यं वद विस्तरतो मम ।
कुत्र केन कदा जाप्यं कियज्जाप्यं कथं कथम् ॥ 28 ॥

उवाच शंभुस्तत् सर्वं पार्वत्या विनयोदितम् ।

श्रीपरमेश्वर उवाच ।

शृणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ 29 ॥

धर्मार्थकाममोक्षाणामिदमेव परायणम् ।
हस्त्यश्वरथपादाति सर्वैश्वर्य प्रदायकम् ॥ 30 ॥

पुत्रमित्रकलत्रादि सर्वसंतोषसाधनम् ।
वेदशास्त्रादिविद्यानां विधानं परमं हि तत् ॥ 31 ॥

संगीत शास्त्र साहित्य सत्कवित्व विधायकम् ।
बुद्धि विद्या स्मृति प्रज्ञा मति प्रौढिप्रदायकम् ॥ 32 ॥

सर्वसंतोषकरणं सर्वदुःखनिवारणम् ।
शत्रुसंहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ 33 ॥

अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश ।
षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ 34 ॥

अष्टादशतु कुष्ठानि गुल्मान्यष्टविधान्यपि ।
अशीतिर्वातरोगाश्च चत्वारिंशत्तु पैत्तिकाः ॥ 35 ॥

विंशतिः श्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।
मंत्रयंत्रकुयोगाद्याः कल्पतंत्रादिनिर्मिताः ॥ 36 ॥

ब्रह्मराक्षस वेतालकूष्मांडादि ग्रहोद्भवाः ।
संगजा देशकालस्थास्तापत्रयसमुत्थिताः ॥ 37 ॥

नवग्रहसमुद्भूता महापातक संभवाः ।
सर्वे रोगाः प्रणश्यंति सहस्रावर्तनाद् ध्रुवम् ॥ 38 ॥

अयुतावृत्तिमात्रेण वंध्या पुत्रवती भवेत् ।
अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ 39 ॥

अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।
सहस्रायुतदर्वाक् सर्वकार्याणि साधयेत् ॥ 40 ॥

लक्षावृत्त्या सर्वसिद्धिर्भवत्येव न संशयः ॥ 41 ॥

विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ।
कुरुते मासमात्रेण वैरिणं विकलेंद्रियम् ॥ 42 ॥

औदुंबरतरोर्मूले वृद्धिकामेन जाप्यते ।
श्रीवृक्षमूले श्रीकामी तिंत्रिणी शांतिकर्मणि ॥ 43 ॥

ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ।
ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ॥ 44 ॥

धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ।
देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ॥ 45 ॥

नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ।
युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ॥ 46 ॥

कंठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ।
ज्वरापस्मारकुष्ठादि तापज्वरनिवारणम् ॥ 47 ॥

यत्र यत् स्यात् स्थिरं यद्यत् प्रसक्तं तन्निवर्तते ।
तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ॥ 48 ॥

इत्युक्तवान् शिवो गौर्वै रहस्यं परमं शुभम् ।
यः पठेत् वज्रकवचं दत्तात्रेय समो भवेत् ॥ 49 ॥

एवं शिवेन कथितं हिमवत्सुतायै
प्रोक्तं दलादमुनयेऽत्रिसुतेन पूर्वम् ।
यः कोऽपि वज्रकवचं पठतीह लोके
दत्तोपमश्चरति योगिवरश्चिरायुः ॥ 50 ॥

इति श्री रुद्रयामले हिमवत्खंडे मंत्रशास्त्रे उमामहेश्वरसंवादे श्री दत्तात्रेय वज्रकवचस्तोत्रं संपूर्णम् ॥

दत्तात्रेय वज्र कवचम् के लाभ

  1. रोगों से मुक्ति: इस कवच का नियमित पाठ करने से शरीर और मन स्वस्थ रहते हैं।
  2. आध्यात्मिक जागरण: साधक को आत्मज्ञान और मोक्ष प्राप्ति का मार्ग प्रशस्त होता है।
  3. नकारात्मक ऊर्जाओं से बचाव: भूत-प्रेत बाधा, बुरी दृष्टि एवं किसी भी प्रकार की तंत्र शक्ति से रक्षा होती है।
  4. धन-समृद्धि: जीवन में आर्थिक स्थिरता और समृद्धि बढ़ती है।
  5. संकट निवारण: जीवन में आने वाली किसी भी परेशानी से मुक्ति मिलती है।
  6. परिवारिक शांति: घर में सुख-शांति और सकारात्मक ऊर्जा का संचार होता है।

दत्तात्रेय वज्र कवचम् एक अद्भुत और शक्तिशाली स्तोत्र है, जिसका पाठ करने से साधक को हर प्रकार की सुरक्षा मिलती है। यह केवल आध्यात्मिक उन्नति ही नहीं, बल्कि भौतिक और मानसिक शांति प्रदान करने वाला भी है। यदि इसे विधिपूर्वक श्रद्धा और विश्वास के साथ किया जाए, तो भगवान दत्तात्रेय की असीम कृपा साधक पर बनी रहती है।

यदि आप जीवन में किसी भी प्रकार की समस्या का सामना कर रहे हैं, तो इस कवच का नित्य पाठ अवश्य करें और अपने जीवन को शुभ एवं मंगलमय बनाएं। ॐ दत्तात्रेयाय नमः!

गायत्री कवचम्
श्री कृष्ण कवचं (त्रैलोक्य मंगल कवचम्)
कामाख्या देवी कवच
बगलामुखी कवच
बृहस्पति कवचम् (गुरु कवचम्)
TAGGED:daily chanting kavachDattatreya Kavach benefitsDattatreya Vajra KavachamHindu kavach mantraprotection mantra in Hindispiritual protection stotraदत्तात्रेय कवच पाठदत्तात्रेय वज्र कवचम्दत्तात्रेय स्तोत्र हिंदीशक्तिशाली कवच मंत्र
Share This Article
Facebook Whatsapp Whatsapp Telegram Email Print
कोई टिप्पणी नहीं

प्रातिक्रिया दे जवाब रद्द करें

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Follow US

Find US on Social Medias
1.8kLike
PinterestPin
1.3kFollow
YoutubeSubscribe
TelegramFollow
WhatsAppFollow

Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Popular News
अष्टकम्कृष्ण स्तोत्र

गोविन्दाष्टकम्

Sanatani
Sanatani
जनवरी 2, 2026
आरती माँ महाकाली
मुद्गल ऋषि से जुडी प्रेरणादायक कथा
पित्तर जी की आरती
सूर्य कवच
- Advertisement -
Ad imageAd image

Categories

About US

SanatanWeb सनातन धर्म, वेदांत और भारतीय संस्कृति का विश्वसनीय मंच है। यहाँ शास्त्रों का सार, पूजा विधि, मंत्र, आध्यात्मिक मार्गदर्शन और परंपराओं से जुड़ी प्रामाणिक जानकारी सरल भाषा में उपलब्ध कराई जाती है।
सनातानवेब
  • हमारे बारे में
  • हमसे संपर्क करें
क़ानूनी
  • अस्वीकरण
  • नियम और शर्तें
  • Privacy Policy

Subscribe US

Subscribe to our newsletter to get our newest articles instantly!

© 2026 Sanatanweb.com - Proudly made with ♥︎ in india.
sanatanweb-logo Sanatanweb logo
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?