By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
SanatanWeb.comSanatanWeb.comSanatanWeb.com
Notification Show More
Font ResizerAa
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
      • धर्मशास्त्र
      • कामशास्त्र
      • रसायनशास्त्र
      • संगीतशास्त्र
      • ज्योतिषशास्त्र
      • अर्थशास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Reading: भृङ्गिकृत शिवस्तोत्रं शिवरहस्ये
Share
Font ResizerAa
SanatanWeb.comSanatanWeb.com
  • सनातनज्ञान
  • गीतकाव्य
  • आरोग्य
  • ज्योतिष
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
Search
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Follow US
SanatanWeb.com > Blog > गीतकाव्य > स्तोत्र > शिव स्तोत्र > भृङ्गिकृत शिवस्तोत्रं शिवरहस्ये
शिव स्तोत्रस्तोत्र

भृङ्गिकृत शिवस्तोत्रं शिवरहस्ये

Sanatani
Last updated: जनवरी 29, 2026 5:05 अपराह्न
Sanatani
Published: जनवरी 29, 2026
Share
SHARE

भृङ्गिकृत शिवस्तोत्रं शिवरहस्ये – Bhringrajasava Stotram Shiva Rahasya

स्कन्दः –
हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।
तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥१॥

भृङ्गी –
क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं
निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् ।
आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२॥

क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं
भीरुं डांभिकपक्षमं व्यसनिनं पापात्मकं सूचकम् ।
आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३॥
मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं
कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।
सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४॥

आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं
धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् ।
दीनं पापरतं समस्तविषयेष्वासक्तमन्यायिने
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥५॥
स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं
धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।
दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥६॥

मायाग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं
दुःसङ्गप्रियमप्रतिष्ठववनं कामातुरं तस्करम् ।
शैवज्ञानपराङ्गमुखं खलजनव्यापारपारं गतं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥७॥
दुर्मर्यादमतिप्रवृद्धजरसं सद्वृत्तिसेवारिपुं
सद्धर्मादिसमुत्सुके गुरुजने मान्येषु चात्युद्धतम् ।
शिष्टानिष्टकरं क्रियापरिचितं दुष्टप्रतुष्टिपदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥८॥

कर्मादिस्तुतिकारणं परमहानिन्दाकरं निन्दितं लुण्टाकं
पतितं विपर्ययगतस्वान्तं सदा याचकम् ।
वैकल्यापगतं सुकार्यनिचयं सर्वापदां संचयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥९॥
कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महाकातरं
दुर्बुद्धिं मदपानमत्सरधियं दुर्वृत्तवृत्त्याश्रयम् ।
मिथ्याज्ञानिनमात्मात्मकण्टकमलं लोकत्रये निन्दितं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१०॥

दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च संपिडितं
चार्वाकं कुमतिं कुशीलमनसं कार्पण्यजन्मस्थलम् ।
भार्यापुत्रगृहादिसक्तमनसं गांभिर्यधैर्यद्विषं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥११॥
आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं
संकल्पैर्बहुभिर्विभिन्नहृदयं द्वैतप्रसक्तं सदा
मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं क्षुद्रकं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१२॥

चित्तक्षोभकरं कलत्रहृदयं शङ्कापदं लोलुपं
सारासारविचारहिनमनसं नीचक्रियं नीरसम् ।
मत्तोन्मत्तनिकृष्टदुष्टचरितं शोच्यं वृथालापिनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१३॥
सत्यत्यागदयाक्षमाशमदमाद्यर्थानभिज्ञानकं
देवब्राह्मणगोत्रजातितिथिपितृज्ञानात्मकापूजनम् ।
विश्वस्तेष्वपकारवञ्चनपरैर्मैत्रीपरं दुर्जयं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१४॥

मत्वाऽधर्ममतिं कदर्थनपरं को मत्समोऽस्मिन्
भवेदित्येवं बहुजल्पिनं कुत्रपुषं पापाश्रितं राक्षसम् ।
दृष्ट्वा दृष्टसुखेषणं तव मदात् त्यक्त्वा शिवाराधनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१५॥
दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं
दासीमेषखरस्वभावमपटुं संमाननाभाजनम् ।
रिक्तं बालमदीर्घसुत्रिणमलं हृच्छल्यभूतं सतां
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१६॥

मार्जाराखुवृकश्वकुक्कुटकपिक्रोडाभिवृत्तिं सदा
तीर्थध्वांक्षमनर्थकम्पिनि हिते सन्तापिनं दुःसहम् ।
त्यक्तोपायमपायकांक्षिणमहोऽशुद्धप्रियं चापलं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१७॥
अस्पृश्यं विकलं कर्दयमखिलैः दोषैः स्वकिर्यैतं
पापिष्ठं विषयेषु सक्तमनसं त्याज्यं विवादास्पदम् ।
चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१८॥

अत्यावेशनमुत्तमस्थितिमतां सत्याग्निनां नास्तिकं
रन्ध्रान्वेषणमन्धमूकबधिरं शंभोस्तु विश्वात्मनः ।
माहात्म्यश्रवणस्तुतिक्षणविधौ माहेश्वरावत्सलं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥१९॥
भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं संभ्रान्तं
चपलं विचारविहितव्यापारविद्वेषणम् ।
शंभो त्वत्पदभक्तिहीनमनसं मूढं समात्मद्विषं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२०॥

दोषावासमतिं प्रमादितमतिं क्षुत्तुड्ज्वराभ्यर्दितं
स्वप्नेऽप्यत्र परोपकाररहितं सर्वाहितं दुर्बलम् ।
लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकेन्द्रियं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२१॥
किं वाचा बहुविस्तरेण भगवन् मत्सन्निभो भूतले
भूतो नास्ति विभो भविष्यति पुमान् निर्भाग्यचूडामणिः ।
तस्मादीदृशमात्मवंचनपरं त्रैलोक्यरक्षामणे
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२२॥

सर्वश्रेष्ठगुणैकभाजनमहो सर्वोत्तमेषूत्तं
संख्येपार्थगुणैकभाजनमलं कष्टातिकष्टप्रियम् ।
श्रीकाश्रीकमतेन्द्रियस्य वशगं निःसंशयं सङ्गिनं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२३॥
विण्मूत्रक्रिमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषास्पदम् ।
दृष्ट्वाऽपि स्वकलेवरं कृशमयं तवारिक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२४॥

विष्टाविष्टकुजन्तुनिष्ठमशुचिं स्वाभाव्यतो नश्वरं
कुष्ठक्षौण्यविषूचिकाज्वरशिरः शूलादिवेगास्पदम् ।
ज्ञात्वाऽपि स्वशरीरमत्र तु सदा संप्रीतियुक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२५॥
स्वात्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने
वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समिक्ष्यापि च ।
तत्रात्मन्यतिरागिणं त्वयि कृते स्वान्यानुरक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२६॥

देहं क्षालनलेपनादिविधिना संस्पृश्य योग्यार्थवत्
छिन्नं क्लिन्नमहाव्रणं नवमुखं नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाऽप्यतिरागिणं च नरके नूनं सरागं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२७॥
लोकेऽत्यन्तपवित्रतामुपगतं यत् पञ्चगव्यादिकं
तद्देहोत्थकफास्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः ।
स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२८॥

स्वस्यार्युनिचयस्य मध्यत इमौ नित्यं निशावासरौ
जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतः स्वल्पायुषः खण्डकं ।
गच्छत् तावदबुद्धय च स्वहितसत्कर्मण्यरक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥२९॥
सर्पिः खण्डपयोमधुप्रभृतिकं त्यक्तवा तृणान्यपि गौः
यद्वत् शाश्वतशांभवोक्तमहिमानन्दान्पेक्षं सदा ।
शंभो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३०॥

धूमे कुंकुमगन्धकांक्षिणमहो तोयार्थिनं वा मरौ
तैलान्वेषिणमश्वचूत्णनिचये मैत्र्यर्थिनं दुर्जने ।
दुर्बुद्धीं त्रिगुणात्मके मलनिधौ क्षेत्रे सुखेप्सुं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३१॥
देवानामपि मारुतस्य च विभो गम्यं न यत् तत्र तु
स्वैरं गच्छति मे मनो नहि तदा चित्तं तवांघ्रिद्वये ।
धर्तुस्तच्च नियन्तुमुच्चसुखदो नैर्वासमर्थं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३२॥

वेदैरप्यखिलैर्महेश बहुशो वेदान्तशास्त्रादिभिः
व्यापि चिन्मय एक ईश्वर इति प्रोक्ते त्वयि त्वत्पदे ।
चित्तं धर्तुमशक्तमात्मवचनैः व्यापारहीनं पशुं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३३॥
ज्ञानाज्ञानदयादयाशमदमासंमोहमोहानतिख्यात्यख्याति
भयाभयासुखसुखाहिंसामनस्तुष्टयः ।
भूतनां भवदाज्ञयैव विधिना नित्यं भवन्ति ध्रुवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३४॥

भावाभावभवाभवामृतविषसत्सत्समस्ता क्रिया
दिव्यत्वं च निरामयत्वनिखिलाभीष्टार्थसंपत्तयः ।
भूतानां भवदिच्छयैव भगवन् जायन्त एवानिशं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३५॥
योगैश्वर्यसमस्तदानपरता श्रद्धात्मभक्तिर्दृढा
वैराग्यं परमं महेश परमे धर्मे मतिश्चारुता ।
भूतानां भवतः प्रसादत इमे जायन्त एव ध्रुवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३६॥

नालं चालयितुं तृणं च पवनः शंभो त्वदाज्ञां विना
दग्धुं तं न समर्थ एव हुतभुक् शक्रोऽपि नो व्रजतः ।
शक्तः छेत्तुमपि प्रभो जगदिदं सर्वं त्वदाज्ञावशं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३७॥
चित्तं चेतयते मनश्च सकलं संकल्पयत्याज्ञया
सर्वार्थानभिमन्यते ननु महादेवाज्ञयाऽहंकृतिः ।
स्वे स्वे त्विन्द्रियवर्ग एव विषयेच्छास्ते तवैवाज्ञया
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३८॥

ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः
संहर्ता जगतं श्रियं जनयति श्रीयुग्मविद्यां पुमान् ।
गायत्री च तवाज्ञयैव नरकात् सन्तारयत्याश्रितान्
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥३९॥
वायुर्वाति तवाज्ञया शशिरवी नित्यं जगद्भासकौ
आहारं पचते च कुक्षिसदने वह्निः सद प्राणिनाम् ।
देवानां वहतीव हव्यमऽपि यः पाकं करोत्यत्ति यः
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४०॥

भूतान्याप इहाज्ञयैव भवतः संजीवयन्ति प्रभो वाचा
वाग् विपुलं ददाति जगतां यत्तेखिलं पुंनभः ।
भूतानामवकाशदं त्रिजगतां शीतोष्णशङ्कास्पदः
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४१॥
सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः
ब्रह्माण्डानि इहात्मवस्तुनि परे सन्धारकाः सन्ततम् ।
त्रैलोक्यानुगतानपीह सुबहून्याज्ञावशादेव ते
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४२॥

हर्तासौ महदादिकं प्रकृतिरप्याज्ञावशा ते विभो
कालश्च प्रकृतिः पुरुः पुरुष इत्येतत् त्रयं सर्वदा ।
शंभो देव भव त्वमेव च तथा भूतं भविष्यत् भवं
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४३॥
त्वयोपरि तमो घृतं तव महाब्धिलीलार्थमेव
त्वयोन्नतिप्रेरणयैव ते तच्च विषयेष्वत्र प्रवृतं जगत् ।
तापश्चापि रवेः समस्तजगतां दुःखार्तिहारिन प्रोभो
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४४॥

बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो भवेः
त्वं पाशैर्भवबन्धमेतदखिलं कर्मच्छलेनापि च ।
शंभो त्वां शरणागतं करुणया त्वं शंकरो येन वा
कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥४५॥
महामुर्ते महादेव त्वन्मूर्तौ सर्वदेवताः ।
यथा बीजाङ्कुरोत्पत्तिः तथेदं त्वय्यवस्थितम् ॥४६॥

जगज्जालमिदं शम्भो ससुरासुरमानुषम् ।
नित्य निर्माय नीरूप धुरन्धर सुनिर्मलम् ॥४७॥
मनोवाचां सुदुरात्मन् परमेश नमोस्तु ते ।
त्वत्तः सर्वं त्वया सर्वं त्वं सर्वं सर्वगोऽसि च ॥४८॥

नमस्ते देवदेवेश सर्वकारणकारण ।
कर्तव्य च दया दिने करुणाकर शङ्कर ॥४९॥
सर्वापराधं मे देव क्षमस्व जगतां पते ।
तव रूपं जगच्छम्भो अष्टमूर्तिरनीश्वरः ॥५०॥

पिता त्वमेव भगवन् माता साक्षादुमा यतः ।
क्षमस्वागो ममेद नीं बहुनोक्तेन किं प्रभो ॥
त्वयि भक्तिं महादेव दृढां देहि मृडाव्यय ॥५२॥
स्कन्दः –
इत्युक्तां मुनिवचनस्तुतिं महेशः
श्रुत्वा चागकुमारिकायुतो हरस्तम् ।
दत्वा रूपमपारदिव्यगणपस्येन्द्राधिपत्यं ददौ
तेनैवोत्तमसद्द्विजेन विहरत् कैलासमौलौ शिवः ॥५३॥
यस्त्त्वेतच्छृणुयात पठेन शम्भोः
स्तव्यानां परमः स्तवोऽयमीशतुष्ट्यै ।
सोऽन्ते चाप्यचिरेण भृङ्गितुल्यः
पादाब्जे परमेश्वरस्य युक्तभृङ्गः ॥५४॥
॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे
भृङ्गिकृतशिवस्तोत्रवर्णनं नाम दशमोऽध्यायः ॥

गुरु ग्रह स्तोत्रम्
मत्स्य स्तोत्रम्
गणाधीश स्तोत्रम्
वाणी शरणागति स्तोत्रम्
कृष्ण जन्म स्तुति
TAGGED:Shiv Stotra
Share This Article
Facebook Whatsapp Whatsapp Telegram Email Print
कोई टिप्पणी नहीं

प्रातिक्रिया दे जवाब रद्द करें

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Follow US

Find US on Social Medias
1.8kLike
PinterestPin
1.3kFollow
YoutubeSubscribe
TelegramFollow
WhatsAppFollow
Popular News
कृष्ण स्तोत्रस्तोत्र

कृष्ण स्तुति

Sanatani
Sanatani
जनवरी 25, 2026
बाल मुकुन्दाष्टकम्
गणेश मन्त्र स्तोत्रम्
अरे माता बहनो – Are Mata Behno
दाशरथी शतकम् ( దాశరథీ శతకం )

Categories

Reading: भृङ्गिकृत शिवस्तोत्रं शिवरहस्ये
Share

About US

SanatanWeb सनातन धर्म, वेदांत और भारतीय संस्कृति का विश्वसनीय मंच है। यहाँ शास्त्रों का सार, पूजा विधि, मंत्र, आध्यात्मिक मार्गदर्शन और परंपराओं से जुड़ी प्रामाणिक जानकारी सरल भाषा में उपलब्ध कराई जाती है।
सनातानवेब
  • हमारे बारे में
  • हमसे संपर्क करें
क़ानूनी
  • अस्वीकरण
  • नियम और शर्तें
  • Privacy Policy

Subscribe US

Subscribe to our newsletter to get our newest articles instantly!

© 2026 Sanatanweb.com - Proudly made with ♥︎ in india.
sanatanweb-logo Sanatanweb logo
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?