By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
SanatanWeb.comSanatanWeb.comSanatanWeb.com
Notification Show More
Font ResizerAa
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
      • धर्मशास्त्र
      • कामशास्त्र
      • रसायनशास्त्र
      • संगीतशास्त्र
      • ज्योतिषशास्त्र
      • अर्थशास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Reading: विज्ञान गणराज स्तोत्रम्
Share
Font ResizerAa
SanatanWeb.comSanatanWeb.com
  • सनातनज्ञान
  • गीतकाव्य
  • आरोग्य
  • ज्योतिष
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
Search
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Follow US
SanatanWeb.com > Blog > गीतकाव्य > स्तोत्र > श्री गणेश स्तोत्र > विज्ञान गणराज स्तोत्रम्
श्री गणेश स्तोत्रस्तोत्र

विज्ञान गणराज स्तोत्रम्

Sanatani
Last updated: जनवरी 29, 2026 7:01 अपराह्न
Sanatani
Published: जनवरी 29, 2026
Share
SHARE

विज्ञान गणराज स्तोत्रम् – Vigyan Ganraj Stotram

अत्रिरुवाच ।

श्रृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् ।
ब्रह्मणा कथितं ह्येतद्येन शान्तोऽहमञ्जसा ॥१॥

अस्माकं कुलदेवत्वं प्राप्तो गणपतिःप्रभुः ।
स वै देवाधिदेवानां कुलदेवः प्रकीर्तितः ॥२॥

शान्तियोगस्वरूपं तं जानीहि त्वं महामते ।
भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि ॥३॥

गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत ।
तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥४॥

नामरूपात्मकं सर्वं जगद् ब्रह्म प्रकथ्यते ।
तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥५॥

तत्रामृतमयं भानुमात्माकारेण संस्थितम् ।
सद्रूपं तं विजानीयाद् ब्रह्म वेदे प्रकीर्तितम् ॥६॥

तयोरभेदतो ब्रह्म समं सर्वत्र संस्थितम् ।
सदसन्मयगं विष्णुं जानीहि वेदवादतः ॥७॥

तेभ्यो विलक्षणस्तुर्या नेतिरूपः प्रकीर्तितः ।
निर्मोहः शिवसञ्ज्ञश्च स्वाधीनं ब्रह्म तद्बुधैः ॥८॥

चतुर्णां ब्रह्मसंयोगे स्वानन्दः कथ्यते बुधैः ।
स वै मायामयः साक्षाद्गुणेशो वेदवादिभिः ॥९॥

अन्तर्बाह्याः क्रियाः सर्वा ब्रह्माकारः प्रदृश्यते ।
कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥१०॥

ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् ।
तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥११॥

ज्ञानानां कर्मणाम् चैव भेदे योगः समात्मकः ।
आनन्दात्मकरूपोऽयं द्वैधनाशे स प्राप्यते ॥१२॥

स्वेच्छया कर्मयोगश्च धृतो येन महात्मना ।
स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः ॥१३॥

स्वेच्छया स त्रिभिर्हिनः सहजाख्यः प्रकथ्यते ।
सदा स्वाधीनरूपश्च स्वेच्छया क्रीडते स्वयम् ॥१४॥

ब्रह्मभूतात्मको योगः स्वानन्दाख्यः प्रकीर्तितः ।
तत्र स्वाधीनता पुत्र पराधीना त्रिधा कृता ॥१५॥

ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च ।
उत्थानं नास्ति संयोगात्स्वस्वरूपिणि योगिनः ॥१६॥

स्वानन्दे सुतसंयोगो जगतां ब्रह्मणां भवेत् ।
सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥१७॥

अयोगात्मकयोगश्च सदा संयोगवर्जितः ।
जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥१८॥

सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः ।
स्वकीयाभेदहीनत्वान्निवृत्तिर्योगिभिर्धृता ॥१९॥

ब्रह्म ब्रह्माणि संस्थं यन्नागतं न गतं पुनः ।
स्वानन्दनाशतस्तुभ्यं ब्रह्मभूतमयोगकम् ॥२०॥

ब्रह्मस्वानन्दवासी स गणेशः कथ्यते बुधैः ।
स्वानन्दात्मात्मकः प्रोक्तो वेदेषु वेदवादिभिः ॥२१॥

क्रीडात्मको गणेशानः स्वानन्दः परिकीर्तितः ।
संयोगात्मकरूपेण स्वस्वरूपेण तिष्ठति ॥२२॥

क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः ।
निरानन्दात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥२३॥

संयोगायोगयोगेन तयोर्नाशे गणेश्वरः ।
शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥२४॥

पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः ।
मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ॥२५॥

पञ्चचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक ।
तत्र मोहकरी सिद्धिर्भ्रान्तिदा मोहरूपिणी ॥२६॥

धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते ।
ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥२७॥

पञ्चधा चित्तवृत्तिर्या तत्र यद्बिम्बितं सुत ।
तदेव गणराजस्य रूपं बिम्बात्मकं परम् ॥२८॥

धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् ।
ऐश्वर्यं मोहदं जन्तुर्भ्रमति यत्र लालसः ॥२९॥

पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च ।
जीवं जानीहि पुत्र त्वं शान्तियोगस्य सेवया ॥३०॥

पञ्चचित्तप्रणाशे वै पञ्चैश्वर्ये लयं गतः ।
अधुना गणराजस्त्वं भविताऽसि न संशयः ॥३१॥

त्यजावधूतमार्गं त्वं भाववधूतमुख्यकः ।
अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥३२॥

सदा शान्तिं भजस्व त्वं योगेन दत्त सत्वरम् ।
ददामि ते महामन्त्रं गणेशस्य विधानतः ॥३३॥

तत एकाक्षरं मन्त्रं ददौ पुत्राय भावतः ।
अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः ॥३४॥

साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदांवरः ।
गङ्गाया दक्षिणे तीरे पूजयामास विग़्ह्नपम् ॥३५॥

त्यक्त्वा भूमिस्वरूपं स शान्तिमास्थाय योगवित् ।
अभजत्तं तु भावेन गणपं हृदि चिन्तयन् ॥३६॥

महायोगी स्वयं दत्तो वर्षेणैकेन शौनक ।
शान्तिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥३७॥

तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया ।
भक्तवात्सल्यभावेन दत्ताश्रमसुशान्तिदः ॥३८॥

तं दृष्ट्वा सहसोत्थाय प्रणनाम कृताञ्जलिः ।
तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥३९॥

दत्त उवाच ।

नमो गणपते तुभ्यं नमो योगस्वरूपिणे ।
योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः ॥४०॥

सिद्धिबुद्धिपते तुभ्यं पञ्चचित्तप्रधारकम् ।
नानाविहारशीलाय गणेशाय नमो नमः ॥४१॥

सिद्धिदात्रे समस्तेभ्यो नानैश्वर्यप्रधारिणे ।
मोहहन्त्रे मोहकर्त्रे हेरम्बाय नमो नमः ॥४२॥

स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे ।
नानामायाविहाराय विघ्नेशाय नमो नमः ॥४३॥

साङ्ख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते ।
परतोत्थानरूपाय विदेहाय नमो नमः ॥४४॥

बोधाय सर्वरूपाय देहदेहिमयाय च ।
स्वत उत्थानरूपाय प्रकृतेर्लय ते नमः ॥४५॥

सोऽहङ्काराय देवाय जगदीशाय ते नमः ।
महते बिन्दुरूपाय जगद्रूपाय ते नमः ॥४६॥

नादात्मकगुणेशाय नानावेषप्रधारिणे ।
ब्रह्मणे सृष्टिकर्त्रे च पितामह नमोऽस्तु ते ॥४७॥

हरये पालकायैव नानादेहधराय च ।
संहर्त्रे शङ्करायैव कर्माकाराय भानवे ॥४८॥

शक्तये च क्रियामूर्ते देवमानवरूपिणे ।
नागासुरमयायैव ढुण्ढिराजाय ते नमः ॥४९॥

स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः ।
जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥५०॥

किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् ।
वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥५१॥

धन्यो देहो मदीयोऽद्य पितरौ कुलमेव च ।
विद्या योगस्तपश्चैव त्वदंग़्ह्रियुगदर्शनात् ॥५२॥

इत्युक्त्वा भक्तिभावेन परिप्लुतो महामुनिः ।
ननर्त हृष्टरोमाऽसौ आनन्दाश्रूः सृजन्मुहुः ॥५३॥

ततस्तं स्वकरे धृत्वा गणनाथः प्रसस्वजे ।
उवाच योगिनं पूर्णैर्वचनं परमाद्भुतम् ॥५४॥

गणेश उवाच ।

धन्योऽसि दत्त योगीन्द्रो जातोऽसि मदनुग्रहात् ।
शान्तिं लभसि पूर्णां त्वमचलां मयि सर्वदा ॥५५॥

कदापि ते न भेदो मे भविष्यति महामुने ।
त्वत्प्रीतिसम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥५६॥

गणेशज्ञानमाहात्म्यं त्वया ह्यत्रेर्मुखाच्छुतम् ।
साक्षात्कारकृतं तस्मादिदं विज्ञानक्षेत्रकम् ॥५७॥

विज्ञानगणपो दत्तनाम्ना ख्यातो भवाम्यहम् ।
दर्शनाच्छान्तिसन्दाता भविष्याम्यत्र मानद ॥५८॥

अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुताः ।
शान्तियोगं सदा तेभ्यो दास्यामि ते स्वसन्निधौ ॥५९॥

इदं पुरा शिवेनैव ज्ञानं साक्षात्कृतं स्वयम् ।
विज्ञानेश्वरनामा मे कृतो मया स शङ्करः ॥६०॥

तस्यात्र सन्निधिं स्थित्वा त्वया तथा सुसाधितम् ।
अतः शङ्करमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥६१॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
पठतां श्रृण्वतां नॄणां ब्रह्मीभूतकरं तथा ॥६२॥

धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ।
सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥६३॥

इत्युक्त्वाऽन्तर्दधे तत्र गणेशो भक्तवत्सलः ।
दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥६४॥

ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः ।
योगाभेदमयत्वेन जात आत्मनिवेदकः ॥६५॥

दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् ।
स्वामिनि सेवकः सोऽपि तदाकारेण संस्थितः ॥६६॥

इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी ।
दत्तेन सा धृता मुख्या शान्तियोगमयत्वतः ॥६७॥

एतस्मिन्नन्तरे तत्र प्रकटोऽभूत्स्वयं शिवः ।
विज्ञानेश्वरनामासौ दत्तं तं परिषस्वजे ॥६८॥

अहो दत्त महाभाग मम मित्रत्वमागतः ।
अत्रैवाहं गणेशानं ध्यायामि योगसेवया ॥६९॥

ततो दत्तं पुरस्कृत्य शङ्करो ब्राह्मणैः सह ।
गणेशं स्थापयामास गङ्गाया दक्षिणे तटे ॥७०॥

विज्ञानगणराजेति नाम चक्रे महर्षिभिः ।
तदादिक्षेत्रविख्यातं बभूव गणपस्य तत् ॥७१॥

विज्ञाननामकं पुण्यं शान्तियोगफलप्रदम् ।
सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥७२॥

इति मुद्गलपुराणोक्तं विज्ञानगणराजस्तोत्रं समाप्तम् ।

गणेश गीतासार स्तोत्रम्
हिरण्मयी स्तोत्रम्
चण्डिकाष्टकम्
सरस्वती स्तव
संकटमोचन हनुमानाष्टक
TAGGED:Ganesh Stotram
Share This Article
Facebook Whatsapp Whatsapp Telegram Email Print
कोई टिप्पणी नहीं

प्रातिक्रिया दे जवाब रद्द करें

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Follow US

Find US on Social Medias
1.8kLike
PinterestPin
1.3kFollow
YoutubeSubscribe
TelegramFollow
WhatsAppFollow

Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Popular News
नवग्रह स्तोत्रस्तोत्र

शनि पंचकम

Sanatani
Sanatani
जनवरी 26, 2026
नाथ अब लीजै मोहि उबार
पित्तर जी की आरती
ऋण विमोचन नरसिम्हा स्तोत्रम्
राहु ग्रह मंत्र
- Advertisement -
Ad imageAd image

Categories

About US

SanatanWeb सनातन धर्म, वेदांत और भारतीय संस्कृति का विश्वसनीय मंच है। यहाँ शास्त्रों का सार, पूजा विधि, मंत्र, आध्यात्मिक मार्गदर्शन और परंपराओं से जुड़ी प्रामाणिक जानकारी सरल भाषा में उपलब्ध कराई जाती है।
सनातानवेब
  • हमारे बारे में
  • हमसे संपर्क करें
क़ानूनी
  • अस्वीकरण
  • नियम और शर्तें
  • Privacy Policy

Subscribe US

Subscribe to our newsletter to get our newest articles instantly!

© 2026 Sanatanweb.com - Proudly made with ♥︎ in india.
sanatanweb-logo Sanatanweb logo
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?