गणेश हदय स्तोत्रम् Ganesh Hridaya Stotra
शौनक उवाच ॥
प्रकृतं वद सूत त्वं संवादं शड्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥१॥
नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥२॥
सूत उवाच ॥
धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् । चरितं हष्टरोमाण: पप्रच्छु: शड्करं द्बिजा: ॥३॥
सनकाद्या ऊचु: ॥
नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमम् । धूम्रवर्णावतारस्य सन्तुष्टा: स्म: सदाशिव ॥४॥
अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् । विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥५॥
शिव उवाच॥
गणेशहदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागा: शीघ्रेण शान्तिदं परम् ॥६॥
पुराऽहं गणनाथस्य ध्यानयुक्तोऽभंव द्विजा: । तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥७॥
गंगोवाच ॥
वद शड्कर कस्य त्वं ध्यानं करोषि नित्यदा ॥ इच्छामि तमहं ज्ञातुं त्वत्त: किं परमं मतम् ॥८॥
शिव उवाच ॥
गणेशं देवदेवेशं ब्रह्म ब्रह्मेशमादरात् । ध्यायामि सर्वभावज्ञे कुलदेव सनातनम् ॥९॥
तस्य यद् हदयं देवि गुप्तं सर्वप्रदायकम् । कथयिष्यामि सर्वज्ञे येन तं ज्ञास्यसे विभुम् ॥१०॥
पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् । तत्र तप:प्रभावेण हद्यपश्यं गजाननम् ॥११॥
तस्य दर्शनमात्रेण स्फूर्ति: प्राप्ता मया प्रिये । तया गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥१२॥
तत्तेऽहं शृणु वक्ष्यामि गणेशहदयं परम् । येन गाणेशयोगे त्वं निपुणा सम्मविष्यसि ॥१३॥
अस्य श्रीमद्गणेशहदयस्तोत्रमन्त्रस्य शम्भुरृषि: नानाविधानि छन्दांसि ।
श्रीमद्स्वानन्देशो गणेशो देवता । गमिति बीतम् । ज्ञानाम्तिका शक्ति: । नाद: कीलकम् ।
अथ ध्यानम् ।
सिन्दूरामं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तम् । पाशं चैवाड्कुशं वै रदनमभयदं पाणिभि: सन्दधन्तम् ॥
सिद्धया बुद्धया प्रश्र्लिष्टं गजवदनमहं चिन्तये होकदन्तम् । नानभूषभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥१४॥
गणेशमेकदन्तं च चिन्तामणिं विनायकम् । ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥१५॥
हेरम्बं बक्रतुण्डं च ज्येश्ठराजं निजस्थितम् । आशापूरं तु वरदं विकटं धरणीधरम् ॥१६॥
सिद्धि-बुद्धिपर्ति वन्दे ब्रह्मणस्पतिसंज्ञितम् । माड्रल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥१७॥
एकविंशतिनामानि गणेशस्य महात्मन: । अर्थेन संयुतानि चेद् हदयं परिकीर्तितम् ॥१८॥
गंगोवाच ॥ एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव । गणेशहदयं येन जानामि करुणानिघे ॥१९॥
शिव उवाच ॥
गकाररूपं विविध्म चराचरं णकारगं ब्रह्म तथा परात्परम् ॥ तयो: स्थितास्तस्य गणा: प्रकीर्तिता: गणेशमेकं प्रणमाम्यहं परम् ॥२०॥
मायास्वरूपं तु सदैकवाचकं दन्त: परो मायिकरूपधारक: ॥ योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥२१॥
चित्तप्रकाशं विविधेषु संस्थंमा लेपावलेपादिविवर्जितं च ॥ भोगौर्विहीनं त्वथ भोगकारकं चिन्तामणिं तं प्रणमामि नित्यम् ॥२२॥
विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् ॥ निरड्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥२३॥
वेदा: पुराणानि महेश्वरादिका: शास्त्राणि योगीश्वरदेवमानवा: ॥ नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥२४॥
मायार्थवाच्यो मयुरप्रभावो नानाभ्रमार्थं प्रकरोति तेन ॥ तस्मान्मयूरेशमथो वदन्ति नमामि मायापतिमासमन्तात् ॥२५॥
यस्योदराद्बिश्वमिदं प्रसूतं ब्रह्माणि तद्बज्जठरे स्थितानि ॥ आनन्त्यरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥२६॥
जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्म शिर: परेशम् ॥ तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥२७॥
दीनार्थवाच्यस्त्वथ हेर्जगच्च ब्रह्मार्थवाच्यो निगमेषु रम्ब: ॥ तत्पालकत्वाच्च तयो: प्रयोगे हेरम्बनेकं प्रणमामि नित्यम् ॥२८॥
विश्वात्मक यस्य शरीरमेकम् तस्माच्च वक्रं परमात्मरूपम् ॥ तुण्डं तदेवं हि तयो: प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥२९॥
मातापिताऽयं जगतां परेषां तस्यापि माताजनकादिकं न ॥ श्रेष्ठं वदन्ति निगमा परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥३०॥
नानाचतु:स्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् ॥ पूर्यस्य सा पूर्णसमाधिरूपा । स्वानन्दनाथं प्रणमामि चात: ॥३१॥
मनोरथान् पूरयतीह गड्रे चराचराणां जगतां परेषां ॥ अतो गणेशं प्रवदन्ति चाशा. प्रपूरकं तं प्रणमामि नित्यम् ॥३२॥
वरै: समस्थापितमेव सर्वं विश्वं तथा ब्रह्माविहारिणा च ॥ अत: परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥३३॥
मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च ॥ तस्मात्परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥३४॥
चित्तस्य प्रोक्ता मुनिभि: पृथिव्यो: नानाविधा योगिभिरेव गड्रे ॥ तासां सदा धारक एव वन्दे चाहं हि धरणीधरमादिभूतम् ॥३५॥
विश्वात्मिका बृह्ममयी हि बुद्धि: तस्या विमोहप्रदिका च सिद्धि: ॥ ताभ्यां सदा खेलति योगनाथ: तं सिध्दिबुद्धीशमथो नमामि ॥३६॥
असत्यसत्याम्यतुरीयनैजगन्निवृत्तिब्रह्माणि विरच्य खेलक: ॥ सदा स्वयं योगमयेन भाति त नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥३७॥
अमड्रलं विश्वमिदं सहात्मभि: अयोगसंयोगयुतं प्रणश्र्वरम् ॥तत: परं मड्रलरूपधारकं नमामि माड्रल्यपतिं सुशान्तिदम् ॥३८॥
सर्वत्रमान्यं सकलावभासकं सुज्ञै: शुभादावशुभादिपूजितम् ॥ पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥३९॥
भुक्तिं च मुक्तिं च ददाति तुष्टो यो विघ्नहा भक्तिप्रियो निजेभ्य: ॥ भक्त्या विहीनाय ददाति विघ्नान् तं विघ्नराजं प्रणमामि नित्यम् ॥४०॥
नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् ॥ सप्तत्रिनाम्नां हदयं नरो यो ज्ञात्व परं ब्रह्ममयो भवेदिह ॥४१॥
गंगोवाच ॥
नाम्नां यद्हदयं प्रोक्तं त्वया ब्रह्मपदं परम् ॥ न तत्रानुभवो मे तु तदर्थं वद शड्कर ॥४२॥
शिव उवाच ॥ मन्त्र्म गृह्य गणेशस्य पुरश्चरणमार्गत: । भज त्वं तेन तं ज्ञानं भविष्यति न संशय: ॥४३॥
हदयं मन्त्रराजस्य कथयामि समासत: । मन्त्र एव गणेशानो न भिन्नं तत्र वर्तते ॥४४॥
गकारो ब्रह्मदेवश्चाकारो विष्णु: प्रकीर्तित: ॥ बिन्दु: शिवस्तथा भानु: सानुनासिकसंज्ञित: ॥४५॥
तेषां सन्धिर्महाशक्तिरेभि: स मन्त्र उच्यते । देवता गणनाथस्तु तेषां संयोगकारक: ॥४६॥
तेभ्यस्तारमय्म विश्वं समुत्पन्नं प्रिये पुरा ॥ अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृति: ॥४७॥
तार: स षड् विध: प्रोक्तस्तन्निबोध सरिद्बरे । अकारोकारकौ प्रोक्तौ मकारो नादबिन्दुके ॥४८॥
शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहीस्वरूपं तु बिन्दुर्देह इति स्मृत: ॥४९॥
ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदधारकम् । एतादृशं विजानीहि मन्त्रराजं गजाननम् ॥५०॥
आगमोक्तविधानेन कृत्वा न्यासार्दिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षण: ॥५१॥
तद्दशांशेन होमं वै कुर्यादागममार्गत: । तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥५२॥
तद्दशांशमितं देवि मार्जनं तद्दशांशत: । विप्राणां भोजनं प्रोक्तमेवं पञ्चाड्रमुच्यते ॥५३॥
यथाविधिकृतं चैतत्सद्यैव फलदं भवेत् । अतस्त्वं मन्त्रराजस्य पञ्चकं तत्समाचर ॥५४॥
एवमुक्त्वाददे तस्दै मन्त्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोऽर्थत: ॥५५॥
मयूरेशं समासाद्य चकार तप उत्तमम् ॥ गड्रा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥५६॥
पुरश्चरणमेकं सा चकार सरितां वरा । तत: प्रसन्नतां यातो गणेशो भक्तवत्सल: ॥५७॥
तस्यैव कृपया तस्या हदि ज्ञानं बभूव ह । तेनैकविंशतेर्नाम्रामर्थज्ञा तत्क्षणादभूत् ॥५८॥
ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥५९॥
सनकाद्या ऊचु: ॥ ब्रह्मभूता सरित्श्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥६०॥
शिव उवाच ॥
ब्रह्मभूतो नरो योगी गणेशमभजत्सदा । नवधा भक्तिभावेन तत्परश्च महर्षय: ॥६१॥
पुत्र: कलत्रं जनकौ सुहद्गणो द्रव्यं सखावृत्तिजविद्यया युतम् ॥ स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपति: परात्पर: ॥६२॥
सांसर्गिकं कायिकवाचिकं परं कर्माचरन्मानसजं त्रिदेहत: ॥ ज्ञानं ह्लदिस्थं च मया परात्परं विघ्नेश्वरायेती समर्पितं किल ॥६३॥
योगाकारेण विघ्नेश एकानेकादिसंश्रित: । भुड्क्ते स विविधान्भोगान् शुभाऽशुभसमाश्रितान् ॥६४॥
नाहं नर: स्वयं साक्षात्क्रीडते गणनायक: । स्वामिसेवकभावेन ब्रह्माणि शोभते रत: ॥६५॥
अनेन विधिना विप्रा भजन्ते गणनायकम् । योगिन: शुकमुख्याश्च मुद्गलाद्या महर्षय: ॥६६॥
एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया ॥ ह्लदयं तेन विघ्नेशं तोषयध्वं महर्षय: ॥६७॥
यथा देहेन्द्रियाद्येषु मुख्यं स्वह्लदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायक:॥ ६८॥
तथा गणपतेरेतद् ह्लदयं परिकीर्तितम् । अत्र योगपति: साक्षात्तिष्ठति ब्रह्मनायक: ॥६९॥
अनेन गणनाथं तु यस्तोष्यति नरोत्तम: । स भुक्त्वा सकलान्भोगानन्ते योगमयो भवेत् ॥७०॥
एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुता: परम् । प्रणम्य मां ययु: सर्वे सनकाद्यास्तपोवनम् ॥७१॥
तत्रैकाक्षरमन्त्रस्य पञ्चकं सेव्य योगिन: । गणेशह्लदयं ज्ञात्वा गाणपत्या बभूविरे ॥७२॥
ततो नित्यं गणेशस्य ह्लदयं ते महर्षय: । जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिता: ॥७३॥
अतस्त्वमपि भावेन गणेशह्लदयं परम् ॥ सेवस्व गाणपत्येषु मुख्यस्तथा भविष्यसि ॥७४॥
मुद्नल उवाच ॥ एवमुक्त्वा महानागं शेषाय प्रददौ शिव: । मन्त्रमेकाक्षरं साड्रं स ययौ तं प्रणम्य च ॥७५॥
साधयित्वा यथान्यायं ह्लदयज्ञो बभूव ह । नित्यं ह्लदयकेनैव तुष्टाव द्बिरदाननम् ॥७६॥
गणेशह्लदयं पुण्यं शृणुयाच्छ्रावयेन्नर: । ईप्सितं प्राप्नुयाच्चान्ते ब्रह्मभूतो भवेदिह ॥७७॥
नित्यं पठेन्नरश्चेदं ह्लदयं गणपस्य य: । स गणेशो न सन्देहो दर्शनात्सिद्धिदो भवेत् । ॥७८॥
पुत्रपौत्रकलत्रादि लभते पाठतो नर: । सुविपुलं धनं धान्यमारोग्यमचलां श्रियम् ॥७९॥
एकर्विशतिवारं यो दिवसानेकविंशतिम् । पठेत् गणपतिं चिन्त्य स लभेदीप्सितं फलम् ॥८०॥
असाध्यं साधयेन्मर्त्यो गणेशह्लदयेन यत् । राजबद्धं त्रिकालेषु मोचयेत्पाठतो विधे ॥८१॥
मारणोच्चाटनादीनि वश्यमोहादिकानि तु अनेन साधयेन्मर्त्य: परं कृत्यं विनाशयेत् ॥८२॥
सड्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किञ्चिद्दुर्लभं भवेत् ॥८३॥
विद्यामायुर्यश: प्रज्ञामड्रहीनोड्रमाप्नुयात् । यं यं चिन्तयते भर्त्यस्तं तं प्राप्नोति निश्चितम् ॥८४॥
नानेन सदृशं किञ्चिच्छीघ्रसिद्धिकरं भवेत् । साक्षाद्गणपते: प्रोक्तं ह्लदयं ते मया विघे ॥८५॥
गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य ह्लदयं वै कदाचन ॥८६॥
गणेशभक्तियुक्ताय साधवे च प्रयत्नत: । दातव्यं तेन विघ्नेश: सुप्रसन्नो भविष्यति ॥८७॥
महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । ह्लदयं किं पुन: श्रोतुमिच्छसि त्वं प्रजापते. ॥८८॥
इति श्री-
मुद्गलपुराणे गणेशह्लदयं नाम स्तोत्रं सम्पूर्णम् ॥