धन्वन्तरिस्तोत्रम् Dhanvantari Stotram

    0

    ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
    सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥

    चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् ।
    ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥

    मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तानुसंस्थात् ।
    हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुः दुरितं निहन्यात् ॥

    अज्ञान-दुःख-भय-रोग-महाविषाणि योगोऽयमाशु विनिहन्ति सुखं च दद्यात् ।
    उन्माद-विभ्रमहरः हरतश्च सान्द्र-मानन्दमेव पदमापयति स्म नित्यम् ॥

    ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं एवं स यस्य शिरसि स्वकरं निधाय ।
    आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥

    धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥

    दीर्घ-पीवर-दोर्दण्डः, कम्बुग्रीवोऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥

    पीतवासा महोरस्कः, सुमृष्टमणिकुण्डलः । नीलकुञ्चितकेशान्तः, सुभगः सिंहविक्रमः ॥

    573665 dhanvantari

    स्निग्धकुञ्चित भागवतम ८.८.३४



    अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः।
    स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः ।
    धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् ।
    एवं धन्वन्तरिं ध्यायेत् साधकोऽभीष्टसिद्धये ॥

    ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
    सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥

    धन्वन्तरिङ्गरुचिधन्वन्तरेरितरुधन्वंस्तरीभवसुधा
    धान्वन्तरावसथमन्वन्तराधिकृतधन्वन्तरौषधनिधे ।
    धन्वन्तरंगशुगुधन्वन्तमायिषु वितन्वन् ममाब्धितनय
    सून्वन्ततात्मकृततन्वन्तरावयवतन्वन्तरार्तिजलधौ ॥

    धन्वन्तरिश्च भगवान् स्वयमास देवो var स्वयेमेव कीर्तिः
    नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
    यज्ञे च भागममृतायुरवाप चार्धा
    रवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥

    भागवतम २.७.२१

    क्षीरोदमथनोद्भूतं दिव्यगन्धानुलेपिनम् ।
    सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम् ॥

    शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
    औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥

    अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
    अयं मे विश्वभेषजोऽयं शिवाभिमर्षणः ॥

    अच्युतानन्त-गोविन्द-विष्णो नारायणामृत ।
    रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥

    धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥

    ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय,
    सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥

    इति धन्वन्तरिस्तोत्रं सम्पूर्णम् ।

    कोई टिप्पणी नहीं है

    कोई जवाब दें

    कृपया अपनी टिप्पणी दर्ज करें!
    कृपया अपना नाम यहाँ दर्ज करें

    error: Content is protected !!
    Exit mobile version