शिव केशादिपादान्तवर्णन स्तोत्रम् Shiv Keshadipadantvarnan Stotram
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
त्प्रांशुस्तंबाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥१॥
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां
शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥२॥
क्रुध्यद्गौरीप्रसादानतिसमयपदांगुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारे: स्फटिकमणिदृषन्मग्नमाणिक्यशोभं ।
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्या-
दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥३॥
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिंबयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयिसमुपगतेतीव निर्वृत्तगर्वम्
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥४॥
युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलांबररचितबृहत्कञ्चुकोऽभूत् प्रपञ्चः
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥५॥
चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डु गण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम्
चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे
चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले व: ॥६॥
खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशंकां दधानः ।
युष्माकं कम्रवक्त्रांबुरुहपरिलसत्कर्णिकाकारशोभः
शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥७॥
क्रुद्धत्यधा ययोः स्वां तनुमतिलसतोर्बिंबितां लक्षयन्ती
भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या ।
युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा-
वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥८॥
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छन्
सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम्
प्रोद्यत्प्रेम्णायमार्द्रापिबतिगिरिसुता संपदः सातिरेका
लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥९॥
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
पीयूषांभः प्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव ।
देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य
द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥१०॥
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्घुष्टमेघौघघोषं
स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।
सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
प्रीत्या वः संविदध्यात् फलविकलमलं जन्म नादः सनादः ॥११॥
भासा यस्य त्रिलोकी लसति परिलसत् फेनबिन्द्वर्णवान्त-
र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥१२॥
सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।
यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥१३॥
आत्मप्रेम्णा भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मष्या तिस्रःसुनीलाञ्जननिभगररेखाः समाभान्ति यस्यां ।
आकल्पानल्पभासा भृशरुचिरतरा कंबुकल्पांबिकायाः
पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥१४॥
वक्त्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते
सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशं
प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन् गलं वो हृदयमयमलं क्षालयेत्काळकूटः ॥१५॥
प्रौढप्रेमाकुलाया दृढतरपरिरंभेषु पर्वेन्दुमुख्याः
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥१६॥
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः ।
तिर्यग्विष्कंभभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा
बाहा वस्ता हरस्य द्र्रतमिह निवहानंहसां संहरन्तु ॥१७॥
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो-
जान्तर्निक्षिप्तशुंभन्मलयजमिलितोद्भासि भस्मोक्षितं यत् ।
क्षिप्रं तद्रूक्षचक्षुःश्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥१८॥
मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च-
न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले ।
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥१९॥
वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला ।
आबद्धाहीन्द्रकाञ्चीगुणमति पृथुलं शैलजाक्रीडभूमि
स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥२०॥
पुष्टावष्ठंभभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ ।
सारावूरूपुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥२१॥
आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।
काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते
कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनीजानुनी व: ॥२२॥
मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः
बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
जंघे शंखेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥२३॥
अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः ।
सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
शर्वस्य क्रीडतां तौ प्रपदवरबृहद्कच्छपावच्छभासौ ॥२४॥
याः स्वस्यैकांशपातादतिबहलगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन् प्राङ् निजमचलवरं चालयन्तं दशास्यं ।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशःकल्मषप्लोषकल्याः
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्ल्यः ॥२५॥
प्रह्व प्राचीनबर्हिः प्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्रैरविरतममला भूरिनीराजिता या ।
प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
नीलग्रीवस्य पादांबुरुहविलसिता सा नखाली सुखं व: ॥२६॥
सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते
स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः ।
लोलं लोलंबकानां कुलमिव सुधियां सेवते ये सदा स्तां
भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदांभोरुहे वः ॥२७॥
येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा-
द्ये वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः ।
श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भवाख्यात्
पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥२८॥
भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां
साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यं ।
यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो
माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥२९॥