35.7 C
Gujarat
रविवार, मार्च 8, 2026

Gopala Akshaya Kavacham

Post Date:

Gopala Akshaya Kavacham गोपाल अक्षय कवचम्

श्रीनारद उवाच।
इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम्।
अक्षयं कवचं नाम कथयस्व मम प्रभो।
यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्यविजयी भवेत्।
ब्रह्मोवाच।
श‍ृणु पुत्र मुनिश्रेष्ठ कवचं परमाद्भुतम्।
इन्द्रादिदेववृन्दैश्च नारायणमुखाच्छ्रतम्।
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः।
ऋषिश्छन्दो देवता च सदा नारायणः प्रभुः।
अस्य श्रीत्रैलोक्यविजयाक्षयकवचस्य। प्रजापतिऋर्षिः।
अनुष्टुप्छन्दः। श्रीनारायणः परमात्मा देवता।
धर्मार्थकाममोक्षार्थे जपे विनियोगः।
पादौ रक्षतु गोविन्दो जङ्घे पातु जगत्प्रभुः।
ऊरू द्वौ केशवः पातु कटी दामोदरस्ततः।
वदनं श्रीहरिः पातु नाडीदेशं च मेऽच्युतः।
वामपार्श्वं तथा विष्णुर्दक्षिणं च सुदर्शनः।
बाहुमूले वासुदेवो हृदयं च जनार्दनः।
कण्ठं पातु वराहश्च कृष्णश्च मुखमण्डलम्।
कर्णौ मे माधवः पातु हृषीकेशश्च नासिके।
नेत्रे नारायणः पातु ललाटं गरुडध्वजः।
कपोलं केशवः पातु चक्रपाणिः शिरस्तथा।
प्रभाते माधवः पातु मध्याह्ने मधुसूदनः।
दिनान्ते दैत्यनाशश्च रात्रौ रक्षतु चन्द्रमाः।
पूर्वस्यां पुण्डरीकाक्षो वायव्यां च जनार्दनः।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्।
तव स्नेहान्मयाऽऽख्यातं न वक्तव्यं तु कस्यचित्।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे।
देवा मनुष्या गन्धर्वा दासास्तस्य न संशयः।
योषिद्वामभुजे चैव पुरुषो दक्षिणे भुजे।
निभृयात्कवचं पुण्यं सर्वसिद्धियुतो भवेत्।
कण्ठे यो धारयेदेतत् कवचं मत्स्वरूपिणम्।
युद्धे जयमवाप्नोति द्यूते वादे च साधकः।
सर्वथा जयमाप्नोति निश्चितं जन्मजन्मनि।
अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत्।
सर्वतापप्रमुक्तश्च विष्णुलोकं स गच्छति।

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...
error: Content is protected !!