By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
SanatanWeb.comSanatanWeb.comSanatanWeb.com
Notification Show More
Font ResizerAa
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
      • धर्मशास्त्र
      • कामशास्त्र
      • रसायनशास्त्र
      • संगीतशास्त्र
      • ज्योतिषशास्त्र
      • अर्थशास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Reading: गणेश हदय स्तोत्रम्
Share
Font ResizerAa
SanatanWeb.comSanatanWeb.com
  • सनातनज्ञान
  • गीतकाव्य
  • आरोग्य
  • ज्योतिष
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
Search
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Follow US
SanatanWeb.com > Blog > गीतकाव्य > स्तोत्र > श्री गणेश स्तोत्र > गणेश हदय स्तोत्रम्
श्री गणेश स्तोत्रस्तोत्र

गणेश हदय स्तोत्रम्

Sanatani
Last updated: जनवरी 29, 2026 7:24 अपराह्न
Sanatani
Published: जनवरी 29, 2026
Share
SHARE

गणेश हदय स्तोत्रम् – Ganesh Hridaya Stotra

 

शौनक उवाच ॥

प्रकृतं वद सूत त्वं संवादं शड्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥१॥
नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥२॥

सूत उवाच ॥

धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् । चरितं हष्टरोमाण: पप्रच्छु: शड्करं द्बिजा: ॥३॥
सनकाद्या ऊचु: ॥
नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमम् । धूम्रवर्णावतारस्य सन्तुष्टा: स्म: सदाशिव ॥४॥
अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् । विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥५॥

शिव उवाच॥

गणेशहदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागा: शीघ्रेण शान्तिदं परम् ॥६॥
पुराऽहं गणनाथस्य ध्यानयुक्तोऽभंव द्विजा: । तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥७॥

गंगोवाच ॥

वद शड्कर कस्य त्वं ध्यानं करोषि नित्यदा ॥ इच्छामि तमहं ज्ञातुं त्वत्त: किं परमं मतम् ॥८॥

शिव उवाच ॥

गणेशं देवदेवेशं ब्रह्म ब्रह्मेशमादरात् । ध्यायामि सर्वभावज्ञे कुलदेव सनातनम् ॥९॥
तस्य यद्‍ हदयं देवि गुप्तं सर्वप्रदायकम् । कथयिष्यामि सर्वज्ञे येन तं ज्ञास्यसे विभुम् ॥१०॥
पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् । तत्र तप:प्रभावेण हद्यपश्यं गजाननम् ॥११॥
तस्य दर्शनमात्रेण स्फूर्ति: प्राप्ता मया प्रिये । तया गणेश्वरं ज्ञात्वा योगिवन्द्योऽ‍भवं मुदा ॥१२॥
तत्तेऽहं शृणु वक्ष्यामि गणेशहदयं परम् । येन गाणेशयोगे त्वं निपुणा सम्मविष्यसि ॥१३॥
अस्य श्रीमद्‍गणेशहदयस्तोत्रमन्त्रस्य शम्भुरृषि: नानाविधानि छन्दांसि ।
श्रीमद्‍स्वानन्देशो गणेशो देवता । गमिति बीतम् । ज्ञानाम्तिका शक्ति: । नाद: कीलकम् ।
अथ ध्यानम् ।
सिन्दूरामं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तम् । पाशं चैवाड्‍कुशं वै रदनमभयदं पाणिभि: सन्दधन्तम् ॥
सिद्धया बुद्धया प्रश्र्लिष्टं गजवदनमहं चिन्तये होकदन्तम् । नानभूषभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥१४॥
गणेशमेकदन्तं च चिन्तामणिं विनायकम् । ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥१५॥
हेरम्बं बक्रतुण्डं च ज्येश्ठराजं निजस्थितम् । आशापूरं तु वरदं विकटं धरणीधरम् ॥१६॥

सिद्धि-बुद्धिपर्ति वन्दे ब्रह्मणस्पतिसंज्ञितम् । माड्रल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥१७॥
एकविंशतिनामानि गणेशस्य महात्मन: । अर्थेन संयुतानि चेद्‍ हदयं परिकीर्तितम् ॥१८॥
गंगोवाच ॥ एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव । गणेशहदयं येन जानामि करुणानिघे ॥१९॥

शिव उवाच ॥

गकाररूपं विविध्म चराचरं णकारगं ब्रह्म तथा परात्परम् ॥ तयो: स्थितास्तस्य गणा: प्रकीर्तिता: गणेशमेकं प्रणमाम्यहं परम् ॥२०॥
मायास्वरूपं तु सदैकवाचकं दन्त: परो मायिकरूपधारक: ॥ योगे तयोरेकरदं सुमानिनि धीस्थं नतो‍ऽहं जनभक्तिलालसम् ॥२१॥
चित्तप्रकाशं विविधेषु संस्थंमा लेपावलेपादिविवर्जितं च ॥ भोगौर्विहीनं त्वथ भोगकारकं चिन्तामणिं तं प्रणमामि नित्यम् ॥२२॥
विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् ॥ निरड्‍कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥२३॥
वेदा: पुराणानि महेश्वरादिका: शास्त्राणि योगीश्वरदेवमानवा: ॥ नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥२४॥
मायार्थवाच्यो मयुरप्रभावो नानाभ्रमार्थं प्रकरोति तेन ॥ तस्मान्मयूरेशमथो वदन्ति नमामि मायापतिमासमन्तात् ॥२५॥
यस्योदराद्बिश्वमिदं प्रसूतं ब्रह्माणि तद्बज्जठरे स्थितानि ॥ आनन्त्यरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥२६॥
जगद्‍गलाधो गणनायकस्य गजात्मकं ब्रह्म शिर: परेशम् ॥ तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥२७॥
दीनार्थवाच्यस्त्वथ हेर्जगच्च ब्रह्मार्थवाच्यो निगमेषु रम्ब: ॥ तत्पालकत्वाच्च तयो: प्रयोगे हेरम्बनेकं प्रणमामि नित्यम् ॥२८॥
विश्वात्मक यस्य शरीरमेकम् तस्माच्च वक्रं परमात्मरूपम् ॥ तुण्डं तदेवं हि तयो: प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥२९॥
मातापिताऽयं जगतां परेषां तस्यापि माताजनकादिकं न ॥ श्रेष्ठं वदन्ति निगमा परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥३०॥
नानाचतु:स्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् ॥ पूर्यस्य सा पूर्णसमाधिरूपा । स्वानन्दनाथं प्रणमामि चात: ॥३१॥
मनोरथान् पूरयतीह गड्रे चराचराणां जगतां परेषां ॥ अतो गणेशं प्रवदन्ति चाशा. प्रपूरकं तं प्रणमामि नित्यम् ॥३२॥
वरै: समस्थापितमेव सर्वं विश्वं तथा ब्रह्माविहारिणा च ॥ अत: परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥३३॥
मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च ॥ तस्मात्परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥३४॥
चित्तस्य प्रोक्ता मुनिभि: पृथिव्यो: नानाविधा योगिभिरेव गड्रे ॥ तासां सदा धारक एव वन्दे चाहं हि धरणीधरमादिभूतम् ॥३५॥
विश्वात्मिका बृह्ममयी हि बुद्धि: तस्या विमोहप्रदिका च सिद्धि: ॥ ताभ्यां सदा खेलति योगनाथ: तं सिध्दिबुद्धीशमथो नमामि ॥३६॥
असत्यसत्याम्यतुरीयनैजगन्निवृत्तिब्रह्माणि विरच्य खेलक: ॥ सदा स्वयं योगमयेन भाति त नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥३७॥
अमड्रलं विश्वमिदं सहात्मभि: अयोगसंयोगयुतं प्रणश्र्वरम् ॥तत: परं मड्रलरूपधारकं नमामि माड्रल्यपतिं सुशान्तिदम् ॥३८॥
सर्वत्रमान्यं सकलावभासकं सुज्ञै: शुभादावशुभादिपूजितम् ॥ पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतो‍ऽस्मि नित्यम् ॥३९॥
भुक्तिं च मुक्तिं च ददाति तुष्टो यो विघ्नहा भक्तिप्रियो निजेभ्य: ॥ भक्त्या विहीनाय ददाति विघ्नान् तं विघ्नराजं प्रणमामि नित्यम् ॥४०॥
नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् ॥ सप्तत्रिनाम्नां हदयं नरो यो ज्ञात्व परं ब्रह्ममयो भवेदिह ॥४१॥
गंगोवाच ॥
नाम्नां यद्‍हदयं प्रोक्तं त्वया ब्रह्मपदं परम् ॥ न तत्रानुभवो मे तु तदर्थं वद शड्कर ॥४२॥
शिव उवाच ॥ मन्त्र्म गृह्य गणेशस्य पुरश्चरणमार्गत: । भज त्वं तेन तं ज्ञानं भविष्यति न संशय: ॥४३॥
हदयं मन्त्रराजस्य कथयामि समासत: । मन्त्र एव गणेशानो न भिन्नं तत्र वर्तते ॥४४॥
गकारो ब्रह्मदेवश्चाकारो विष्णु: प्रकीर्तित: ॥ बिन्दु: शिवस्तथा भानु: सानुनासिकसंज्ञित: ॥४५॥
तेषां सन्धिर्महाशक्तिरेभि: स मन्त्र उच्यते । देवता गणनाथस्तु तेषां संयोगकारक: ॥४६॥
तेभ्यस्तारमय्म विश्वं समुत्पन्नं प्रिये पुरा ॥ अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृति: ॥४७॥
तार: स षड्‍ विध: प्रोक्तस्तन्निबोध सरिद्बरे । अकारोकारकौ प्रोक्तौ मकारो नादबिन्दुके ॥४८॥
शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहीस्वरूपं तु बिन्दुर्देह इति स्मृत: ॥४९॥
ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदधारकम् । एतादृशं विजानीहि मन्त्रराजं गजाननम् ॥५०॥
आगमोक्तविधानेन कृत्वा न्यासार्दिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षण: ॥५१॥
तद्दशांशेन होमं वै कुर्यादागममार्गत: । तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥५२॥
तद्दशांशमितं देवि मार्जनं तद्दशांशत: । विप्राणां भोजनं प्रोक्तमेवं पञ्चाड्रमुच्यते ॥५३॥
यथाविधिकृतं चैतत्सद्यैव फलदं भवेत् । अतस्त्वं मन्त्रराजस्य पञ्चकं तत्समाचर ॥५४॥
एवमुक्त्वाददे तस्दै मन्त्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोऽर्थत: ॥५५॥
मयूरेशं समासाद्य चकार तप उत्तमम् ॥ गड्रा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥५६॥
पुरश्चरणमेकं सा चकार सरितां वरा । तत: प्रसन्नतां यातो गणेशो भक्तवत्सल: ॥५७॥
तस्यैव कृपया तस्या हदि ज्ञानं बभूव ह । तेनैकविंशतेर्नाम्रामर्थज्ञा तत्क्षणादभूत् ॥५८॥
ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥५९॥
सनकाद्या ऊचु: ॥ ब्रह्मभूता सरित्श्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥६०॥

शिव उवाच ॥

ब्रह्मभूतो नरो योगी गणेशमभजत्सदा । नवधा भक्तिभावेन तत्परश्च महर्षय: ॥६१॥
पुत्र: कलत्रं जनकौ सुहद्‍गणो द्रव्यं सखावृत्तिजविद्यया युतम् ॥ स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपति: परात्पर: ॥६२॥
सांसर्गिकं कायिकवाचिकं परं कर्माचरन्मानसजं त्रिदेहत: ॥ ज्ञानं ह्लदिस्थं च मया परात्परं विघ्नेश्वरायेती समर्पितं किल ॥६३॥
योगाकारेण विघ्नेश एकानेकादिसंश्रित: । भुड्‍क्ते स विविधान्भोगान् शुभाऽशुभसमाश्रितान् ॥६४॥
नाहं नर: स्वयं साक्षात्क्रीडते गणनायक: । स्वामिसेवकभावेन ब्रह्माणि शोभते रत: ॥६५॥
अनेन विधिना विप्रा भजन्ते गणनायकम् । योगिन: शुकमुख्याश्च मुद्‍गलाद्या महर्षय: ॥६६॥
एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया ॥ ह्लदयं तेन विघ्नेशं तोषयध्वं महर्षय: ॥६७॥
यथा देहेन्द्रियाद्येषु मुख्यं स्वह्लदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायक:॥ ६८॥
तथा गणपतेरेतद्‍ ह्लदयं परिकीर्तितम् । अत्र योगपति: साक्षात्तिष्ठति ब्रह्मनायक: ॥६९॥
अनेन गणनाथं तु यस्तोष्यति नरोत्तम: । स भुक्त्वा सकलान्भोगानन्ते योगमयो भवेत् ॥७०॥
एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुता: परम् । प्रणम्य मां ययु: सर्वे सनकाद्यास्तपोवनम् ॥७१॥
तत्रैकाक्षरमन्त्रस्य पञ्चकं सेव्य योगिन: । गणेशह्लदयं ज्ञात्वा गाणपत्या बभूविरे ॥७२॥
ततो नित्यं गणेशस्य ह्लदयं ते महर्षय: । जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिता: ॥७३॥
अतस्त्वमपि भावेन गणेशह्लदयं परम् ॥ सेवस्व गाणपत्येषु मुख्यस्तथा भविष्यसि ॥७४॥
मुद्नल उवाच ॥ एवमुक्त्वा महानागं शेषाय प्रददौ शिव: । मन्त्रमेकाक्षरं साड्रं स ययौ तं प्रणम्य च ॥७५॥
साधयित्वा यथान्यायं ह्लदयज्ञो बभूव ह । नित्यं ह्लदयकेनैव तुष्टाव द्बिरदाननम् ॥७६॥
गणेशह्लदयं पुण्यं शृणुयाच्छ्रावयेन्नर: । ईप्सितं प्राप्नुयाच्चान्ते ब्रह्मभूतो भवेदिह ॥७७॥
नित्यं पठेन्नरश्चेदं ह्लदयं गणपस्य य: । स गणेशो न सन्देहो दर्शनात्सिद्धिदो भवेत् । ॥७८॥
पुत्रपौत्रकलत्रादि लभते पाठतो नर: । सुविपुलं धनं धान्यमारोग्यमचलां श्रियम् ॥७९॥
एकर्विशतिवारं यो दिवसानेकविंशतिम् । पठेत् गणपतिं चिन्त्य स लभेदीप्सितं फलम् ॥८०॥
असाध्यं साधयेन्मर्त्यो गणेशह्लदयेन यत् । राजबद्धं त्रिकालेषु मोचयेत्पाठतो विधे ॥८१॥
मारणोच्चाटनादीनि वश्यमोहादिकानि तु अनेन साधयेन्मर्त्य: परं कृत्यं विनाशयेत् ॥८२॥
सड्‍ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किञ्चिद्‍दुर्लभं भवेत् ॥८३॥
विद्यामायुर्यश: प्रज्ञामड्रहीनोड्रमाप्नुयात् । यं यं चिन्तयते भर्त्यस्तं तं प्राप्नोति निश्चितम् ॥८४॥
नानेन सदृशं किञ्चिच्छीघ्रसिद्धिकरं भवेत् । साक्षाद्‍गणपते: प्रोक्तं ह्लदयं ते मया विघे ॥८५॥
गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य ह्लदयं वै कदाचन ॥८६॥
गणेशभक्तियुक्ताय साधवे च प्रयत्नत: । दातव्यं तेन विघ्नेश: सुप्रसन्नो भविष्यति ॥८७॥
महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । ह्लदयं किं पुन: श्रोतुमिच्छसि त्वं प्रजापते. ॥८८॥

इति श्री-
मुद्‍गलपुराणे गणेशह्लदयं नाम स्तोत्रं सम्पूर्णम् ॥

शास्ता भुजंग स्तोत्रम्
श्री वेङ्कटेश मङ्गलाशासनम्
शिव पंचाक्षर स्तोत्र
गोपाल स्तुति
विघ्नविनाशक स्तोत्रम्
TAGGED:Ganesh Stotram
Share This Article
Facebook Whatsapp Whatsapp Telegram Email Print
कोई टिप्पणी नहीं

प्रातिक्रिया दे जवाब रद्द करें

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Follow US

Find US on Social Medias
1.8kLike
PinterestPin
1.3kFollow
YoutubeSubscribe
TelegramFollow
WhatsAppFollow
Popular News
दुर्गा स्तोत्रस्तोत्र

श्री दुर्गा पञ्चरत्नम्

Sanatani
Sanatani
जनवरी 25, 2026
पद्मावती माता की आरती
श्री राणीसती की आरती
शारदा माता की आरती
त्रिपुरसुंदरी पंचकम

Categories

Reading: गणेश हदय स्तोत्रम्
Share

About US

SanatanWeb सनातन धर्म, वेदांत और भारतीय संस्कृति का विश्वसनीय मंच है। यहाँ शास्त्रों का सार, पूजा विधि, मंत्र, आध्यात्मिक मार्गदर्शन और परंपराओं से जुड़ी प्रामाणिक जानकारी सरल भाषा में उपलब्ध कराई जाती है।
सनातानवेब
  • हमारे बारे में
  • हमसे संपर्क करें
क़ानूनी
  • अस्वीकरण
  • नियम और शर्तें
  • Privacy Policy

Subscribe US

Subscribe to our newsletter to get our newest articles instantly!

© 2026 Sanatanweb.com - Proudly made with ♥︎ in india.
sanatanweb-logo Sanatanweb logo
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?