30.2 C
Gujarat
गुरूवार, जनवरी 22, 2026

गणाधीश स्तोत्रम्

Post Date:

गणाधीश स्तोत्रम् Ganadheesh Stotram

 

श्रीशक्तिशिवावूचतु: ॥

नमस्ते गणनाथाय गणानां पतये नम: ।
भक्तिप्रियाय देवेश भक्तेभ्य: सुखदायक ॥१॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नम: ॥२॥

वरदाभयहस्ताय नम: परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नम: ॥३॥

अनामयाय सर्वाय सर्वपूज्याय ते नम: ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥४॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नम: ॥५॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नम: ।
अनादये च विघ्रेश विघ्रकर्त्रे नमो नम: ॥६॥

विघ्रहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयमक्तियोगेन योगीशा: शान्तिमागता: ॥७॥

किं स्तुवो योगरूपं तं प्रणामावश्च विघ्रपम् ।
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतु: ।
तावुत्थाप्य गणाधीश उवांच तौ महेश्वरौ ॥८॥

श्रीगणेश उवाच ॥

भवक्तृतमिदं स्तोत्रं मम भक्ति- विवर्धनम् ॥९॥

भविष्यति च सौख्यस्य पठते शृण्वते प्रदम् भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ।
धनधान्यादिकं सर्वं लभते तेन निश्चितम ॥१०॥

इति शिवशक्तिकृतं गणाधीशस्तोत्रं सम्पूर्णम् ॥

 

Share post:

Subscribe

Popular

More like this
Related

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...

विष्णु पादादि केशांत वर्णन स्तोत्रं

विष्णु पादादि केशांत वर्णन स्तोत्रंलक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं...
error: Content is protected !!