23.5 C
Gujarat
बुधवार, फ़रवरी 11, 2026

गणाधीश स्तोत्रम्

Post Date:

गणाधीश स्तोत्रम् Ganadheesh Stotram

 

श्रीशक्तिशिवावूचतु: ॥

नमस्ते गणनाथाय गणानां पतये नम: ।
भक्तिप्रियाय देवेश भक्तेभ्य: सुखदायक ॥१॥

स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नम: ॥२॥

वरदाभयहस्ताय नम: परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नम: ॥३॥

अनामयाय सर्वाय सर्वपूज्याय ते नम: ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥४॥

ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नम: ॥५॥

मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नम: ।
अनादये च विघ्रेश विघ्रकर्त्रे नमो नम: ॥६॥

विघ्रहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयमक्तियोगेन योगीशा: शान्तिमागता: ॥७॥

किं स्तुवो योगरूपं तं प्रणामावश्च विघ्रपम् ।
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतु: ।
तावुत्थाप्य गणाधीश उवांच तौ महेश्वरौ ॥८॥

श्रीगणेश उवाच ॥

भवक्तृतमिदं स्तोत्रं मम भक्ति- विवर्धनम् ॥९॥

भविष्यति च सौख्यस्य पठते शृण्वते प्रदम् भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ।
धनधान्यादिकं सर्वं लभते तेन निश्चितम ॥१०॥

इति शिवशक्तिकृतं गणाधीशस्तोत्रं सम्पूर्णम् ॥

 

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...
error: Content is protected !!