27.1 C
Gujarat
शनिवार, मार्च 7, 2026

श्री दधि वामन स्तोत्रम्

Post Date:

श्री दधि वामन स्तोत्रम् Shri Dadhivamana Stotram Lyrics

हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।
पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥

पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।
ज्वलत्कालानलप्रख्यं तडित्कोटिसमप्रभम् ॥२॥

सुर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥

श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।
पीतांबरमुदाराङ्गं वनमालाविभूषितम् ॥४॥

सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।
षोडशस्त्रीयुतं संयगप्सरोगणसेवितम् ॥५॥

ऋग्यजुस्सामाथर्वाद्यैः गीयमानं जनार्दनम् ।
चतुर्मुखाद्यैः देवेशैः स्तोत्राराधनतत्परैः ॥६॥

सनकाद्यैः मुनिगणैः स्तूयमानमहर्निशम् ।
त्रियंबको महादेवो नृत्यते यस्य सन्निधौ ॥७॥

दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे ।
करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥८॥

साधकानाम् प्रयच्छन्तं अन्नपानमनुत्तमम् ।
ब्राह्मे मुहूर्तेचोत्थाय ध्यायेद्देवमधोक्षजम् ॥९॥

अतिसुविमलगात्रं रुक्मपात्रस्थमन्नम्
सुललितदधिभाण्डं पाणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखान् वामनं भावयेद्यः ॥१०॥

क्षीरमन्नमन्नदाता लभेदन्नाद एव च ।
पुरस्तादन्नमाप्नोति पुनरावर्तिवर्जितम् ॥११॥

आयुरारोग्यमैश्वर्यं लभते चान्नसंपदः ।
इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ॥१२॥

अक्लेशादन्नसिध्यर्थं ज्ञानसिध्यर्थमेव च ।
अभ्रश्यामः शुद्धयज्ञोपवीती सत्कौपीनः पीतकृष्णाजिनश्रीः
छ्त्री दण्डी पुण्डरीकायताक्षः पायाद्देवो वामनो ब्रह्मचारी ॥१३॥

अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये ।
मितजगत्त्रितयाय जितारये निगमवाक्पटवे वटवे नमः ॥१४॥

श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ।
नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ॥१५॥

वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ।
वामनस्तारकोभाभ्यां वामनाय नमो नमः ॥१६॥

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...
error: Content is protected !!