By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
SanatanWeb.comSanatanWeb.comSanatanWeb.com
Notification Show More
Font ResizerAa
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
      • धर्मशास्त्र
      • कामशास्त्र
      • रसायनशास्त्र
      • संगीतशास्त्र
      • ज्योतिषशास्त्र
      • अर्थशास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Reading: बगलामुखी कवच
Share
Font ResizerAa
SanatanWeb.comSanatanWeb.com
  • सनातनज्ञान
  • गीतकाव्य
  • आरोग्य
  • ज्योतिष
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
Search
  • सनातनज्ञान
    • वेद
    • उपनिषद
    • शास्त्र
    • पुराण
    • उपपुराण
    • सूत्र
  • गीतकाव्य
    • अष्टकम्
    • आरती
    • स्तोत्र
    • कथाए
    • कवचम्
    • कविताये और प्राथनाए
    • गरबा
    • चालीसा
    • भजन
    • भारत माता
    • मंत्र
    • शाबर मंत्र
    • शतकम्
    • संस्कृत श्लोक अर्थ सहित
    • सूक्तम्
  • आरोग्य
    • आयुर्वेद
    • घरेलू उपचार
    • योग और योगासन
  • ज्योतिष
    • ज्योतिष उपाय
    • राशि चिन्‍ह
    • राशिफल
    • हस्तरेखा
  • त्यौहार
  • धार्मिक पुस्तके
  • प्राचीन मंदिर
  • व्यक्तिपरिचय
  • हिन्दी
    • हिन्दी
    • English
    • ગુજરાતી
Follow US
SanatanWeb.com > Blog > गीतकाव्य > कवचम् > बगलामुखी कवच
कवचम्

बगलामुखी कवच

Sanatani
Last updated: जनवरी 22, 2026 4:46 अपराह्न
Sanatani
Published: जनवरी 22, 2026
Share
SHARE

बगलामुखी कवच

कैलासाचलमध्यगं पुरवहं शान्तं त्रिनेत्रं शिवं
वामस्था कवचं प्रणम्य गिरिजा भूतिप्रदं पृच्छति ।
देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्चापविमुक्त मन्त्रसहितं प्रीत्याऽधुना ब्रूहि माम् ॥ १ ॥

श्रीशङ्कर उवाच ।
देवी श्रीभववल्लभे शृणु महामन्त्रं विभूतिप्रदं
देव्या वर्मयुतं समस्तसुखदं साम्राज्यदं मुक्तिदम् ।
तारं रुद्रवधूं विरिञ्चिमहिला विष्णुप्रिया कामयु-
-क्कान्ते श्रीबगलानने मम रिपून्नाशाय युग्मन्त्विति ॥ २ ॥

ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं
कार्यं साधय युग्मयुक्छिववधू वह्निप्रियान्तो मनुः ।
कंसारेस्तनयं च बीजमपराशक्तिश्च वाणी तथा
कीलं श्रीमिति भैरवर्षिसहितं छन्दो विराट् सम्युतम् ॥ ३ ॥

स्वेष्टार्थस्य परस्य वेत्ति नितरां कार्यस्य सम्प्राप्तये
नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये ।
ध्यात्वा श्रीबगलाननामनुवरं जप्त्वा सहस्राख्यकं
दीर्घैः षट्कयुतैश्च रुद्रमहिलाबीजैर्विन्यास्याङ्गके ॥ ४ ॥

ध्यानम् ।
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् ।
हस्तैर्मद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषण-
-व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ ५ ॥

विनियोगः ।
ओं अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्र कवचस्य भैरव ऋषिः विराट् छन्दः श्रीबगलामुखी देवता क्लीं बीजं ऐं शक्तिः श्रीं कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ।

ऋष्यादिन्यासः ।
भैरव ऋषये नमः शिरसि ।
विराट् छन्दसे नमः मुखे ।
श्री बगलामुखी देवतायै नमः हृदि ।
क्लीं बीजाय नमः गुह्ये ।
ऐं शक्तये नमः पादयोः ।
श्रीं कीलकाय नमः सर्वाङ्गे ।

करन्यासः ।
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

विनियोगः ।
ओं अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्र कवचस्य भैरव ऋषिः विराट् छन्दः श्रीबगलामुखी देवता क्लीं बीजं ऐं शक्तिः श्रीं कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ।

ऋष्यादिन्यासः ।
भैरव ऋषये नमः शिरसि ।
विराट् छन्दसे नमः मुखे ।
श्री बगलामुखी देवतायै नमः हृदि ।
क्लीं बीजाय नमः गुह्ये ।
ऐं शक्तये नमः पादयोः ।
श्रीं कीलकाय नमः सर्वाङ्गे ।

करन्यासः ।
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ओं ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु ।
मुखी वर्णद्वयं पातु लिङ्गं मे मुष्कयुग्मकम् ॥ ७ ॥

जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।
वाचं मुखं तथा पदं षड्वर्णा परमेश्वरी ॥ ८ ॥

जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥ ९ ॥

जिह्वां वर्णद्वयं पातु गुल्फौ मे कीलयेति च ।
पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ १० ॥

विनाशय पदं पातु पादाङ्गुल्योर्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥ ११ ॥

सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ १२ ॥

माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ १३ ॥

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ १४ ॥

इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः ।
राजद्वारे महादुर्गे पातु मां गणनायकः ॥ १५ ॥

श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥ १६ ॥

योगिन्यः सर्वदा पातु महारण्ये सदा मम ।
इति ते कथितं देवि कवचं परमाद्भुतम् ॥ १७ ॥

श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् ।
अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ॥ १८ ॥

निर्धनो धनमाप्नोति कवचस्यास्य पाठतः ।
जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् ॥ १९ ॥

पठेदिदं हि कवचं निशायां नियमात्तु यः ।
यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥ २० ॥

तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी ।
गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः ॥ २१ ॥

कवचं यः पठेद्देवि तस्याऽसाध्यं न किञ्चन ।
यं ध्यात्वा प्रजपेन्मन्त्रं सहस्रं कवचं पठेत् ॥ २२ ॥

त्रिरात्रेण वशं याति मृत्युं तं नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ॥ २३ ॥

लिखित्वा ह्यदि तं नाम तं ध्यात्वा प्रजपेन्मनुम् ।
एकविंशद्दिनं यावत्प्रत्यहं च सहस्रकम् ॥ २४ ॥

जप्त्वा पठेत्तु कवचं चतुर्विंशतिवारकम् ।
संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा ॥ २५ ॥

विवादे विजयं तस्य सङ्ग्रामे जयमाप्नुयात् ।
श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥ २६ ॥

नवनीतं चाभिमन्त्र्य स्त्रीणां दद्यान्महेश्वरि ।
वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ॥ २७ ॥

श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेल्लोहशलाकया ॥ २८ ॥

भूमौ शत्रोः स्वरूपं च हृदि नाम समालिखेत् ।
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ॥ २९ ॥

ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥ ३० ॥

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् ।
धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥ ३१ ॥

सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ॥ ३२ ॥

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् ।
बृहस्पतिसमो वापि विभवे धनदोपमः ॥ ३३ ॥

कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ।
कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥ ३४ ॥

गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः ।
एकादशशतं यावत्पुरश्चरणमुच्यते ॥ ३५ ॥

पुरश्चर्याविहीनं तु न चेदं फलदायकम् ।
न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥ ३६ ॥

देयं शिष्याय भक्ताय पञ्चत्वं चाऽन्यथाप्नुयात् ।
इदं कवचमज्ञात्वा भजेद्यो बगलामुखीम् ।
शतकोटि जपित्वा तु तस्य सिद्धिर्न जायते ॥ ३७ ॥

दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिं परां
विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।
ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेष्टगन्धेन वै
धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषां नृपः ॥ ३८ ॥

इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं सम्पूर्णम् ।

बुध कवचम्
बृहस्पति कवचम् (गुरु कवचम्)
श्री महा कालभैरव कवचं
शुक्र कवचम्
शिव कवचम्
TAGGED:Baglamukhi Armor BenefitsBaglamukhi Blessings RitualBaglamukhi KavachBaglamukhi Kavach for ProtectionBaglamukhi Kavach Meaningबगलामुखी कवचबगलामुखी तंत्र मंत्र kavachबगलामुखी पूजा नियमबगलामुखी मंत्र शक्तिबगलामुखी शक्ति उपाय
Share This Article
Facebook Whatsapp Whatsapp Telegram Email Print
कोई टिप्पणी नहीं

प्रातिक्रिया दे जवाब रद्द करें

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Follow US

Find US on Social Medias
1.8kLike
PinterestPin
1.3kFollow
YoutubeSubscribe
TelegramFollow
WhatsAppFollow
Popular News
श्री गणेश स्तोत्रस्तोत्र

गजानन स्तोत्र देवर्षय ऊचुः

Sanatani
Sanatani
जनवरी 29, 2026
नवग्रह स्तोत्रम्
गाइये गनपति जगवन्दन लीरिक्स
अर्ध नारीश्वर अष्टकम्
मेदा लकड़ी (Litsea Glutinosa) के चमत्कारी फायदे: आयुर्वेद में छिपा एक अनमोल खजाना 🌿

Categories

Reading: बगलामुखी कवच
Share

About US

SanatanWeb सनातन धर्म, वेदांत और भारतीय संस्कृति का विश्वसनीय मंच है। यहाँ शास्त्रों का सार, पूजा विधि, मंत्र, आध्यात्मिक मार्गदर्शन और परंपराओं से जुड़ी प्रामाणिक जानकारी सरल भाषा में उपलब्ध कराई जाती है।
सनातानवेब
  • हमारे बारे में
  • हमसे संपर्क करें
क़ानूनी
  • अस्वीकरण
  • नियम और शर्तें
  • Privacy Policy

Subscribe US

Subscribe to our newsletter to get our newest articles instantly!

© 2026 Sanatanweb.com - Proudly made with ♥︎ in india.
sanatanweb-logo Sanatanweb logo
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?