27.9 C
Gujarat
बुधवार, फ़रवरी 11, 2026

उमा महेश्वर स्तोत्रम्

Post Date:

उमा महेश्वर स्तोत्रम् Uma Maheshwar Stotram

श्री शंकराचार्यकृतम्

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नागेन्द्रकन्यावृषकेतनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥२॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥३॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जंभारिमुख्यैरभिवन्दिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥४॥

नमः शिवाभ्यां परमौषधाभ्यां
पन्ञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥५॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदंबुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥६॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थित देवताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥७॥

नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥८॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखांबुजाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥९॥

नमः शिवाभ्यां जटिलं धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१०॥

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥११॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१२॥

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
भक्त्या पठेत् द्वादशकं नरो यः ।
स सर्व सौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवस्लोकमेति ॥१३॥

 

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...
error: Content is protected !!