19.3 C
Gujarat
बुधवार, फ़रवरी 11, 2026

आर्त्तत्राण स्तोत्रम्

Post Date:

आर्त्तत्राण स्तोत्रम् Artatrana Stotram ( Arttātrāna Stotram )

क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥१॥

क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥२॥

मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥३॥

ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्त्तिहा ।
पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्घोषयन्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥४॥

बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयां भजन्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥५॥

सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिवृन्दारकेऽ-वृन्दारके अश्वारूढो
श्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥६॥

श्रौतस्मार्त्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं
विश्वातीतमपत्यमेव गतिरित्यालापयन्तं सकृत् ।
रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥७॥

गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयत् पावनीम्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥८॥

॥इति आर्त्तत्राणस्तोत्रम्  सम्पूर्णम् ॥

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...
error: Content is protected !!