16.5 C
Gujarat
गुरूवार, जनवरी 22, 2026

त्वमेव ब्रूहि स्तोत्रम्

Post Date:

त्वमेव ब्रूहि स्तोत्रम् Tvameva Bruhi Stotram

श्री गणेशाय नमः ।

आसीद्धराधामललामरूपो नासीदहो कस्य गुरुर्गरीयान् ।
देशः स एवाद्य त्वदीयप्रेयान् हेयानधस्तिष्ठति सर्वदेशात् ॥१॥

अभूदयोध्या भवदीयमेध्या पुरी पुरा देवपुरादपीह ।
म्लेच्छैरुपेतामवलोक्यते तां नो दूयते किं वद चारु चेतः ॥२॥

पुरा सुराक्रान्तवसुन्धराया व्यथा त्वया किं न निराकृता सा ।
तत्ते बलं क्वास्ति खरः शरो वा गोघातिनो हन्त कथं न हन्सि ॥३॥

मन्ये महापापकलापकारी चेद्रावणो हन्त हतस्त्वयैव ।
किं तद्विधानद्य न पश्यसीह यद्वा त्वमस्माकमिवासि भीतः ॥४॥

सीतातिमीता दशकन्धरेण वीता त्वया शान्तिमितो न भेदः ।
नानाबला हाद्य खला हरन्ति नायांसि कारुण्यमितोऽस्ति खेदः ॥५॥

नोचेद् दयाघन दयामधुना करोषि सन् दीनबन्धुरपि निष्ठुरतां तनोसि ।
कस्यान्तिकं व्रजतु भारतमेतदद्य लोकाभिराम घनश्याम त्वमेव ब्रूहि ॥६॥

॥श्रीराजमणिशर्मकृतं त्वमेवब्रूहिस्तोत्रं सम्पूर्णम् ॥

Share post:

Subscribe

Popular

More like this
Related

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...

विष्णु पादादि केशांत वर्णन स्तोत्रं

विष्णु पादादि केशांत वर्णन स्तोत्रंलक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं...
error: Content is protected !!