25.3 C
Gujarat
मंगलवार, मार्च 3, 2026

शंकरादिकृतं गजाननस्तोत्रम्

Post Date:

शंकरादिकृतं गजाननस्तोत्रम् – देवा ऊचुः  Shankaraadi Kritam Gajanan Stotram

 

गजाननाय पूर्णाय सांख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥१॥

अमेयाय च हेरम्ब परशुधारकाय ते ।
मूषकवाहनायैव विश्वेशाय नमो नमः ॥२॥

अनन्तविभवायैव परेशां पररूपिणे ।
शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥३॥

पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥४॥

स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥५॥

योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥६॥

सिद्धि-बुद्धिपते नाथ! सिद्धि-बुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥७॥

लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥८॥

गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप! ।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥९॥

तेन त्वं गजवक्त्रश्च किं स्तुमस्तवां गजानन ।
वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपाः ॥१०॥

शुक्रादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति नः ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥११॥

एवमुक्त्वा प्रणेमुस्तं गजाननं शिवादयः ।
स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥१२॥

गजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते चैव ब्रह्मभूतप्रदायकम् ॥१३॥

इति मौद्गलोक्तं गजाननस्तोत्रं समाप्तम् ॥

 

 

Share post:

Subscribe

Popular

More like this
Related

सरस्वती मां की आरती

सरस्वती मां(Saraswati Mata Aarti) को ज्ञान, संगीत, कला और...

गोकुल अष्टकं

गोकुल अष्टकं - Shri Gokul Ashtakamश्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम्...

अष्टादश शक्तिपीठ स्तोत्रम्

अष्टादश शक्तिपीठ स्तोत्रम्अष्टादश शक्तिपीठ स्तोत्रम् एक अत्यंत पवित्र...

लक्ष्मी शरणागति स्तोत्रम्

लक्ष्मी शरणागति स्तोत्रम्लक्ष्मी शरणागति स्तोत्रम् (Lakshmi Sharanagati Stotram) एक...
error: Content is protected !!