35.5 C
Gujarat
बुधवार, अक्टूबर 16, 2024

शंकरादिकृतं गजाननस्तोत्रम् Shankaraadi Kritam Gajanan Stotram

Post Date:

शंकरादिकृतं गजाननस्तोत्रम् – देवा ऊचुः  Shankaraadi Kritam Gajanan Stotram

 

गजाननाय पूर्णाय सांख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥१॥

अमेयाय च हेरम्ब परशुधारकाय ते ।
मूषकवाहनायैव विश्वेशाय नमो नमः ॥२॥

अनन्तविभवायैव परेशां पररूपिणे ।
शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥३॥

पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥४॥

स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥५॥

योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥६॥

सिद्धि-बुद्धिपते नाथ! सिद्धि-बुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥७॥

लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥८॥

गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप! ।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥९॥

तेन त्वं गजवक्त्रश्च किं स्तुमस्तवां गजानन ।
वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपाः ॥१०॥

शुक्रादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति नः ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥११॥

एवमुक्त्वा प्रणेमुस्तं गजाननं शिवादयः ।
स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥१२॥

गजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते चैव ब्रह्मभूतप्रदायकम् ॥१३॥

इति मौद्गलोक्तं गजाननस्तोत्रं समाप्तम् ॥

 

 

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें

Share post:

Subscribe

Popular

More like this
Related

गणाध्यक्ष स्तोत्रं Ganaadhyaksha Stotram

ईक्ष्वाकुकृत गणाध्यक्ष स्तोत्रं - भरद्वाज उवाच  Ikshvakukrita Ganaadhyaksha Stotram कथं...

गजानन स्तोत्र देवर्षय ऊचुः Gajanan Stotra

गजानन स्तोत्र - देवर्षय ऊचुः Gajanan Stotraगजानन स्तोत्र: देवर्षय...

सर्वेष्टप्रदं गजानन स्तोत्रम् Sarveshtapradam Gajanan Stotram

सर्वेष्टप्रदं गजानन स्तोत्रम् Sarveshtapradam Gajanan Stotram https://youtu.be/9JXvmdfYc5o?si=5DOB6JxdurjJ-Ktk कपिल उवाच ।नमस्ते विघ्नराजाय...

ढुण्ढिस्वरूप वर्णन स्तोत्रम् Dhundhiswarup Varna Stotram

ढुण्ढिस्वरूप वर्णन स्तोत्रम् Dhundhiswarup Varna Stotramढुण्ढिस्वरूप वर्णन स्तोत्रम् -...
error: Content is protected !!